द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 162, कुल 176 में से
संदर्भ में पढ़ें१५४ द्रव्यगुणः । स्थिरतां गतिमक्लिन्नमन्नमद्रवपायिनाम् । भवत्याबाधजननमनुपानमतः पिबेत् ॥ १९ ॥ न पिबेत् श्वासकासार्त्तो रोगे चाप्यूर्ध्वजत्रुगे । क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ॥ २० ॥ पीत्वाध्वभाष्याध्ययनस्वप्नगेयान्न शीलयेत् । प्रदूष्यामाशयं तद्धि तस्य कंठोरसि स्थितम् ॥ स्यन्दाग्निसादच्छर्द्यादीन् जनयेदामयान् बहून॥ २१ ॥ अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् । पलद्वयन्त्वनिलजे पित्तजे तु पलत्रयम् ॥ २२ ॥ ——— युक्तं सत् शरीरं समं स्थापयति । पश्चात् पीतञ्च श्लेष्मप्रस- ङ्गात् स्निग्धतरं सद्बृंहयति । वीक्ष्य प्रयोजयेदिति कर्षणादि- कार्य्यमपेक्ष्य प्रयोजयेदित्यर्थः ॥ १८ ॥ अनुपानाभावे दोषमाह स्थिरतामित्यादि ॥ १९ ॥ विषयविशेषेऽनुपाननिषेधमाह न पिवेदित्यादि । अत्र केचिद्द्रवं विना जारणाभावात् नञश्च ईषदर्थत्वात् अल्पं पिबे- दित्यर्थं वदन्ति ॥ २० ॥ द्रवं पीत्वा यन्न कार्य्यं करणे वा यो दोषस्तमाह । कण्ठो- रसि स्थितमिति अध्वादिश्लोभितवातेनोर्ध्वं नीतत्वात् । स्यन्दः कफप्रसेकः ॥ २१ ॥ अनुपानमात्रामाह अनुपानमित्यादि ॥ २२ ॥ इति अनुपानविधिः।