द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 168, कुल 176 में से
संदर्भ में पढ़ें१६० द्रव्यगुणः । सुखायुषीपराकुर्य्यात्कालरात्रिरिवापरा ॥ रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा । अरूक्षमन्नभिष्यन्दिवासीनप्रचलायितम् ॥२१॥ आस्यावर्णबलश्लेष्मसौकुमार्य्यकरी सुखा । तालवृन्तोद्भवं वातं त्रिदोषशमनं विदुः ॥ वंशव्यजनजः सोष्णो वातपित्तप्रकोपणः । चामरो वस्त्रवातश्च मायूरो वेत्रजस्तथा ॥ एते दोषजिता वाताः स्निग्धा हृद्याः सुपूजिताः । निवातमारोग्यकरं सुखवातं श्रमापहम् ॥ प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् । प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन् ॥ सन्निपातज्वरं श्वासमामवातञ्च कोपयेत् । पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषां विषम् ॥ प्राग्गुणो दक्षिणः प्रोक्त उत्तरः पश्चिमानुगः ॥२२॥ विष्वग्वायुरनायुष्यः प्राणिनां नैकरोगकृत् । धूमः पित्तानिलौ कुर्य्यादवश्यायः कफानिलौ ॥ अग्निर्वातकफस्तम्भशीतवेपथुनाशनः । आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः ॥ आसीनस्य प्रचलायितं घूर्णितमित्यर्थः ॥ २१ ॥ प्राग्गुण इति प्राग्वातगुणः ॥ २२॥