द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 160, कुल 176 में से
संदर्भ में पढ़ें१५२ द्रव्यगुणः । उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः । क्लान्तानामनुपानार्थं पयः पथ्यं यथामृतम् ॥ सुरा कृशानां स्थूलानामनुशस्तं मधूदकम् ॥११॥ निरामयानां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥१२॥ क्षीरमिचुरसश्चेति हितं शोणितपित्तिनः ॥१३॥ अर्कशेलुशिरीषाणामासवस्तु विषार्त्तिषु ॥ १४ ॥ यदाहारगुणैः पानं विपरीतं तदिष्यते । तच्चानुपानं धातूनां दृष्टं यन्न विरोधि च ॥१५॥ फलाम्लं दाड़िमादि ॥ १० ॥ कृशानां सुरा अनुशस्ता । स्थूलानान्तु मधूदकमनुशस्त- मिति सम्बन्धः । मधुमिश्रितमुदकं मधूदकम् ॥ ११ ॥ सुस्थमधिकृत्यानुपानमाह निरामयाणामित्यादि । चित्र- मिति नानाप्रकारं येन नानाप्रकारा दोषधातुमलाः स्वमान- मनुवर्त्तन्ते । सामयानान्तु अनुपानं वातादिदोषापेक्षयैव देयम् । तच्च स्निग्धोष्णं मारुते शस्तं इत्यादिना प्रागेवोक्तम् ॥ १२ ॥ शीतोष्णतोयेत्यादिसूत्रे इक्षुरसस्यापि रसशब्देनाभिधा- नात् । इक्षुरसोऽपि अनुपाने सूत्रित इति तदभिधानम् नोत्सूत्रम् ॥ १३ ॥ विषार्त्तिषु देयमनुपानमाह अर्केत्यादि ॥ १४ ॥ अनुक्तानुपानज्ञानार्थमाह यदाहारेत्यादि ॥ आहारगुणै- रिति शीतस्नेहमधुरादिभिः । विपरीतमिति विपरीतगुणमनु- पेयम् । एवञ्च दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य च । काञ्जिकाद्यनुपानं स्यादित्यत आह । धातूनां यन्न विरोधि