द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 158, कुल 176 में से
संदर्भ में पढ़ें१५० द्रव्यगुणः। स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम् । कफेऽनुपानं रूक्षोष्णं क्षये मांसरसं पयः ॥ ३ ॥ उष्णोदकानुपानन्तु स्नेहानामथ शस्यते । ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम् ॥ ४ ॥ अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ॥ ५ ॥ शीतोष्णतोयादिषु मध्ये यदनुपानं यस्मै हितं भवेत्तस्मै तदेव देयम् । कथमित्याह । व्याधिं ज्वरादिकं तथा व्याधि- शब्देन व्याधिहेतवो वातादयोऽपि गृह्यन्ते उपचारात् । एतन्न सङ्गतमित्यन्ये । युगपद्वृत्तिद्वयापत्तिप्रसङ्गात् । कालमार्त्तव- मावस्थिकञ्च । द्रव्याणि द्रवप्रधानानि स्नेहादीनि । भोज्यानि शूकधान्यादीनि । विभाव्येति विशेषेण ज्ञात्वा न सामान्यरूपेण अवधार्य्य इत्यर्थः ॥ २ ॥ सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधातव्ये प्रथमं दोषविशेषेऽनुपानविशेषमाह स्निग्धोष्णमित्यादि ॥ ३ ॥ दोषभेदेनानुपानभेदमभिधाय द्रव्यभेदेनानुपानभेदे वक्तव्ये शीतोष्णतोययोः प्रथमं सूत्रितत्वात् प्रथमं तयोर्विषयमाह उष्णोदकेत्यादि ॥ ऋते भल्लातकस्नेहादिति उष्णोदकानुपान- स्यापवादः । तत्र तोयं सुशीतलमित्यस्य स्थाने स्नेहात्तौवरि- कात्तथेति केचित् पठन्ति । तत्र पत्रैस्तु केशराकारैः फलैः सर्षपसन्निभैः । वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः । तेन तुवरकफलोद्भवः स्नेहस्तौवरक इत्यर्थः । तेन भल्ला- तकस्नेहे तौवरकस्नेहेऽप्युष्णजलस्य निषेधाच्छीतजलानुपानमर्था- ल्लब्धमेव ॥ ४ ॥