द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 33, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । २५ यवः स्वादुः कषायश्च कफपित्तहरो हिमः । व्रणेषु सर्वदा पथ्यस्तिलवत् पाकतः कटुः ॥ बहुवातपुरीषश्च मेदोवाततृषापहः । वृष्यो बल्यो वड्मूत्रस्थैर्य्याग्निस्रववर्णकृत् ॥ २२ ॥ इति । अतएव वसन्तचर्य्यायां वाग्भटेन पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥ इत्युक्तम् । अन्ये तु आदानमध्यत्वेन यथा चन्दनागुरुभ्यां मिलित्वानुलेपः । तथा यवगोधूमयोर्यथायथं वातपित्तप्रत्यनी- कत्वान्मिलितयोरेवोपयोग इत्याहुः ॥ २१ ॥ कषायश्चेति चकारेण मधुरत्वापेक्षया कषायस्य हीनतां बोधयति । अतएव चरके सकषायश्चेति उपसर्जनार्थः सह- शब्दः प्रयुक्तः । व्रणेषु सर्वदा पथ्यस्तिलवदिति तिलो यथा व्रण- लेपे वातपित्तकफेषु शस्यते तथा यवोऽपि सर्वदा इत्यनेन व्रणस्य सर्वास्वेव अवस्थासु यवस्य हितत्वं बोधयति । तदुक्तम् तिलवद्यवकल्कन्तु केचिदाहुर्मनीषिणः । अविदग्धन्तु शमयेद्विदग्धं पाचयल्यपि । पक्वं भिनत्ति भिन्नञ्च शोधयेद्रोपयेदपि ॥ इति । अन्ये तु सर्वदा इत्यनेन व्रणे यवमण्डप्रयोगेणापि हितमिच्छन्ति । अतएव सुश्रुते हिताहितीये व्रणहितवर्गे यवः पठितः । पाकतः कटुरिति इह केचिदाचक्षते कटु पाकि- त्वेन लघुत्वमुक्तम् । न च चरके रूक्षः शीतो गुरुरित्यनेन विरोधः । तत्रापि अकारप्रश्लेषेणागुरुरिति पाठाङ्गीकारात् । गुरुत्वप्रतिज्ञानार्थमीषदर्थे नञं प्रश्लेषयन्ति । अतएव लघुरित्य- सन्दिग्धमपि न पठितम् । तथापि एतदर्थमेवासन्दिग्धार्थमिव ३