भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 34, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 34

२६ द्रव्यगुणः। श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा । तद्वच्च कङ्गुनीवारकोरदूषाः प्रकीर्त्तिताः ॥ २३ ॥ मुङ्गः कषायो मधुरः कफपित्तास्रजिल्लघुः । ग्राही शीतः कटुः पाके चक्षुष्यो नातिवातलः । प्रधाना हरितास्तत्र बल्या मुद्गरसाः स्मृताः ॥ २४॥ मसूरो मधुरः शीतः संग्राही कफपित्तहा ॥ २५॥ असन्दिग्धमपि लघुपाक इति न कृतम्। अन्ये तु चरकोक्त- गुरुगुणस्यापि यवस्य कटुविपाकित्‍वं द्रव्यप्रभावादेव समर्थनीय- मित्याहुः । बहुवातपुरीष इति कुक्षौ वातकर्त्तृत्वेन ज्ञेयम् । तेन मेदोवाततृषापह इत्यनेनोक्तवातहन्तृत्वं न विरुध्यते । किंवा मेदसावृतो वातो मेदोवातः । तेन मेदसावृत एव वायौ यवो हितोऽनिवारणे तु रूक्षकषायशीतकटुपाकतया कारण- भूत एव । बल्यत्वञ्च स्रोतोविशुद्धिकरत्वेन सम्यक् रससञ्चा- रिणेष्टं न तु देहस्योपचयकारकत्वेन रौक्ष्यादिधर्मयोगाद् यवस्य । अतएव सुश्रुते स्थूलविलेखनं इत्युक्तम् । बद्धमूत्रो- ऽल्पमूत्र एतेन प्रमेहिणां हितमिति डल्हणो व्याचष्टे ॥ २२ ॥ तृणधान्यानां गुणमाह श्यामाक इति । कङ्गुः काङ्नीति लोके । नीवार उडीति लोके । कोरदूषः कोद्रवः ॥ २३ ॥ शूकधान्यमनु तदुपकरणत्वेन शमीधान्यं वाच्यम् । तत्रापि प्राधान्यात् मुङ्गगुणं प्रागभिधत्ते मुङ्ग इति । मधुर इति रसतः पाकतश्च । सुश्रुतेऽप्युक्तम् । विपाके मधुरा इति विपाके मधुरा- णामप्येषां बद्धवर्चस्त्वं प्रभावात् । ऋते मुद्गमसूराभ्यामन्ये- त्वाध्मानकारकाः । एतच्च स्वजात्युत्कर्षपरं वचनं न पुनः सर्वथै- वाध्माननिषेधपरमित्याहुः ॥ २४ ॥ २५ ॥