द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 35, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । २७ माषो बहुमलो वृष्यः स्निग्धोष्णमधुरो गुरुः । वातनुद् वृंहणो बल्यो मेदोमांसकफप्रदः ॥ २६॥ राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् । तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥२७॥ चणको वातलः शीतः कफासृक्पित्तपुंस्त्वनुत्॥२८॥ सतीला वातला रक्तपित्तघ्ना बद्धवर्चसः ॥ २६ ॥ माषगुणमाह माष इति । अत्र वृष्य इत्यनेन शुक्रस्रुति- करत्वं शुक्रवृद्धिकरत्वञ्चेति द्विविधमेव वृष्यत्वं विवक्षितम् । अतएवोक्तं वाग्भटेन शुक्रवृद्धिविरेककृदिति । सुश्रुतेऽपि वृष्य इत्युक्त्वा पुनः शुक्रावहत्वमुक्तमेतदुभयरूपवृष्यत्वपरि- ग्रहार्थम् ॥ २६ ॥ राजमाषगुणमाह राजमाष इति । सरति जलक्षिप्ततैल- वदाशयं व्याप्नोतीति सरः । सरत्वं हि स्थिरविपरीतगुणः । अयञ्च गुणो जलबहुलस्यैव द्रव्यस्य भवति । तदुक्तं शीतस्निग्ध- मृदुस्तिमितसरपिच्छिलमाप्यमिति । तत्स्वादुरिति तयोः रसपाकयोः स्वादुः । उक्तं हि सुश्रुते । कषायभावान्न पुरीषभेदो न मूत्रलो नैव कफस्य कर्त्ता । स्वादु विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥ अलसान्द्रो राजमाष इति चक्रादयः । अस्य च विपाके मधुरस्यापि प्रभावादेव बद्धविण्मूत्रत्वम् कफहारित्वमवृष्यत्वञ्चेति गयदासः । अन्ये तु तत्स्वादुरिति माषवत् स्वादुरित्याहुः । ये तु सर इत्यस्य वर्चोभेदार्थत्वं वर्णयन्ति तन्मते सुश्रुतविरो- धोऽपरिहार्य्यः ॥ २७ ॥ २८ ॥ सतीलो वर्त्तुलकलायः । भिन्नवर्चस इत्यपपाठः ।