द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 36, कुल 176 में से
संदर्भ में पढ़ें२८ द्रव्यगुणः। तुवरी कफपित्तघ्नी कलायश्चातिवातलः ॥ ३० ॥ मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः॥ ३१॥ कुलत्थः कफवातघ्नो ग्राह्युष्णस्तुवरः कटुः । शुक्राश्मरीगुल्मकासश्वासानाहान् सपीनसान् । हन्त्यर्शोमेदसो हिक्कां रक्तपित्तकरश्च सः ॥ ३२ ॥ हरेणवः सतीलाश्च विज्ञेया बद्धवर्चसः । इति सुश्रुतपाठात् द्रव्यगुणपर्य्यालोचनया बद्धवर्चस्त्वस्यैव युक्तत्वात् ॥ २६ ॥ तुवरी तोरीतिलोके । कलायस्त्रिपुटकलायः, तेउडोति लोके । वर्त्तुलस्य पूर्वोक्तत्वात् चकारात् कलायोऽपि कफ- पित्तघ्नः । तदुक्तं चरके चणकाश्च मसूराश्च खण्डौकाः सहरेणवः । पित्तश्लेष्मणि शस्यन्ते इति । अत्र खण्डौकस्त्रिपुटकलायः । वातल इति तुवरीत्यनेनापि सम्बध्यते । यदुक्तं चरके । आढकी कफपित्तघ्नी वातलेति ॥ ३० ॥ मुकुष्टः कोमोठ इति ख्याते । अस्य च क्रिमिकर्त्तृत्वम् सुश्रुतेनोक्तम् ॥ ३१ ॥ कफवातघ्न इति । कफघ्नो वातघ्नः संयुक्तकफवातघ्नश्च । तेषु तेषु प्रदेशेषु प्रत्येकं वाते कफे च तथा संयुक्तयोश्च कफवातयो- र्हितत्वेन कुलत्थस्योद्दिष्टत्वादिति गयदासः । तुवर इति कषायः कटुरिति सुश्रुतमते विपाके कटुरित्यर्थः । उक्तञ्च उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । इति । चरकमते त्वम्लपाकः । तदुक्तं उष्णः कषायाः पाकेऽम्ला इति । उभयथापि रक्तपित्तकरत्वमिति द्रव्यगुणे न विरोध इति प्रागेवोक्तम् ॥ ३२ ॥