द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 41, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ३३ षष्टिका यवगोधूमा लोहिता ये च शालयः । मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ॥ ४१॥ कफवातहरस्तीक्ष्णः सिद्धार्थो रक्तपित्तकृत् । स्निग्धोष्णः क्रिमिकुष्ठघ्नः कटुको रसपाकतः ॥४२॥ तद्गुणा राजिका वाच्यास्तद्गुणोऽन्योऽपि सर्षपः । रसे पाके च कटुकः कुसुम्भः कफनाशनः ॥ ४३॥ अनार्त्तवं व्याधिहतमपर्यागतमेव च । अभूमिजं नवञ्चापि न धान्यं गुणवत् स्मृतम् ॥४४॥ यवगोधूममाषाश्च तिलाश्चाभिनवा हिताः । अनिलप्रदा इत्यन्तो गुणः पूर्वोक्तसहादयादीनाम् रुचिप्रदा इत्यादिगुणस्तु वैदलिकानामार्द्रशिम्बानामित्याह । वैदलिका इति विदलयोग्यतामात्रेण ग्रहणं तेन माषादीनां ग्रहणं तिलादीनाञ्च निरास इति ॥ ४० ॥ इदानीं शूकधान्यशमीधान्येषु ये श्रेष्ठास्तानाह षष्टिका इति ॥ ४१ ॥ शिम्बिप्रकरणानुरोधात् सिद्धार्थकानाञ्च गुणानवैवाह कफे- त्यादि । सिद्धार्थः श्वेतसर्षपः ॥ ४२ ॥ इदानीं धान्यानां हेयत्वनिमित्तं दोषं दर्शयन्नाह अनार्त्तव- मिति । अनार्त्तवमिति अन्यर्तुभवम् । व्याधिहतमिति धान्यस्य ये रोगाः कुङ्कुमिकादयस्ते च कृषीवलसम्प्रदायप्रसिद्धाः तैर्हतमभि- भूतम् । अपर्यागतमपक्वम् । अभूमिजमिति उपरोपल्यका- दिसविषभूमिजम् । नवञ्चापीति चकारेण अनतिदोषता नवस्य -शकेः ॥ ४४ ॥