द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 42, कुल 176 में से
संदर्भ में पढ़ें३४ द्रव्यगुणः । पुराणा नीरसा रूक्षा न तथार्थकरा मताः । विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥४५॥ इति धान्यवर्गः । सर्वं वातहरं मांसं वृष्यं वल्यं स्मृतं गुरु । प्रीणनं बृंहणं हृद्यं मधुरं रसपाकयोः ॥ १ ॥ हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः । मधुरो मधुरः पाके सुगन्धिर्दोषनाशनः ॥ २ ॥ कषायो मधुरो हृद्यः पित्तासृक्कफवातहा । संग्राहौ रोचनो वल्यश्लेषामेघो ज्वरापहः ॥ ३ ॥ नवधान्यस्य यद्दोषवत्त्वमुक्तं तस्यापवादमाह यवेति । विरूढ़मित्यङ्कुरितम् । अन्ये तु विगताङ्कुरजननशक्तिकमि- त्याहुः ॥ ४५ ॥ इति धान्यवर्गः । अन्नार्थं धान्यवर्गमभिधाय तदुपकरणव्यञ्जनार्थं मांसवर्गो वक्तव्यः । अत्र मांसानां सामान्यगुणमाह सर्वमिति ॥ १ ॥ हरिणस्य मधुरपाक्तित्वेऽपि बद्धविण्मूत्रत्वं प्रभावाद्रक्तशालि- वदिति चक्रः । दोषनाशन इति दोषशब्दोऽत्र दोषसामान्या- द्दोषत्रयमेवाभिधत्ते । अतएव सन्निपातहेतु अन्ये पठन्ति ॥ २ ॥ तेषामिति जङ्गालमृगाणां मध्ये एण इति कृष्णहरिण पूर्वन्तु ताम्रवर्णहरिणस्य गुण उक्तः । उक्तञ्च सुश्रुते एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते ॥ ३ ॥