द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 44, कुल 176 में से
संदर्भ में पढ़ें३६ द्रव्यगुणः । मेषस्य मधुरं मांसं पित्तश्लेष्महरं गुरु ॥ ६ ॥ मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ७ ॥ माहिषं तर्पणं वृष्यं स्निग्धोष्णमधुरं गुरु । निद्रापुंस्त्वबलस्तन्यवर्धनं मांसदार्थ्यकृत् ॥ ८ ॥ सामान्यादिति अनभिष्यन्दित्वे हेतुमाहुः । तन्न अप्रयोजकत्वात् । स्वमते तु ग्राम्यस्य बृंहणस्याप्याजमांसस्यानभिष्यन्दित्वं प्रभावा- देव मन्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपद्यते तत्रैव प्रभाव- कल्पनस्यैवौचित्यात् ॥ ५ ॥ मेषगुणमाह मेषस्येति । अत्र क्वचित् पुस्तके पित्तश्लेष्म- करमिति पाठो दृश्यते । स च प्रमादपाठ एव । यतः शरद्विधौ उरभ्राणामुपयोग उक्तः । यदुक्तम् उरभ्रान् शरभान् शशा- निति । न च पित्तश्लेष्मकरत्वे मेषस्य तत्रोपयोगो युज्यते । अतएव चक्रेणापि मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकमिति । चरकवचनेनाविकमांसस्य मधुरशीतत्वेन पित्तहरत्वं बोध्य- मिति व्याख्यातम् । यत्तु रक्तपित्तनिदाने चरकेण वराहमहिषा- विकेत्यादिना आविकस्य रक्तपित्तनिदानत्वमुक्तम् । तदपि द्रव्या- न्तरसंयुक्तस्याप्याविकमांसस्य न तु केवलस्येत्यवधेयम् । अतएव सुश्रुतेऽपि “बृंहणं मांसमौरभ्रं पित्तश्लेष्मापहं गुरु” इत्युक्तम् । वाप्यचन्द्रस्तु पित्तश्लेष्मावहमिति पठति व्याचष्टे च । यद्यप्यौरभ्र- मांसं पित्तश्लेष्मकरमत्रोक्तम् । तथापि सातिशयं पित्तं श्लेष्माणञ्च न करोतीति तदप्यनादरणीयमुक्तयुक्तेरेव ॥ ६ ॥ मेदः पुच्छो मेषभेदः स च पुच्छदेशे लम्बमानमांसपिण्डः ॥७॥ अत्र वृष्यं तथा पुंस्त्ववर्धनमिति च द्वयमुक्तं माषवदुभय- रूपवृष्यप्राप्तिरिति बोध्यम् ॥ ८ ॥