द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 45, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ३७ शुष्ककासश्रमात्यग्निविषमज्वरपीनसान् । कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति ॥ ९ ॥ हयमांसं बलकरमुष्णं मारुतनाशनम् ॥ १० ॥ गवयस्यापि मांसन्तु स्निग्धं कासनिवर्हणम् । रसे पाके च मधुरं व्यवायस्य तु वर्द्धनम् ॥ ११ ॥ खड्गिमांसं कफघ्नन्तु कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रविरूक्षणम् ॥ १२ ॥ वाराहपिशितं बल्यं रोचनं स्वेदनं गुरु । स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ १३ ॥ लावो लघुकटुर्गाही स्वादुः शीतस्त्रिदोषनुत् ॥ १४ ॥ तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः । ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्द्धनः ॥ १५ ॥ पित्र्यमिति । एतद्गुणकथनञ्च यद्यपि चिकित्सायां नोप- युज्यते तथापि प्रसङ्गादुक्तम् ॥ १२ ॥ पक्षिगुणानाह लाव इत्यादि । कटुरिति कटुपाकः तदुक्तं सुश्रुते लावकः कटुपाकश्चेति । लघुरिति प्रकृतिलघुः कटुपाक इत्यनेन च विपाकलघुत्वञ्चेति चरकः ॥ १४ ॥ सर्वदोषघ्न इति । सर्वग्रहणं रक्तोपलक्षितदोषग्रहणार्थ- मित्याहुः । अन्ये तु तित्तिरिः स जयेत् शीघ्रं त्रीन् दोषाननिलोल्वणान् । इतिवचनात् ग्रन्थाधिक्यात् वाताधिक्यदोषत्रयप्राशस्त्यं सर्व- शब्दस्याहुः ॥ १५ ॥ ४