द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 46, कुल 176 में से
संदर्भ में पढ़ें३८ द्रव्यगुणः। पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात् ॥१६॥ ईषदुष्णा गुरुस्निग्धा वृंहणा वर्त्तकाः स्मृताः ॥१७॥ क्रकरा लघवो हृद्यास्तथा चैवोपचक्रकाः । वातपित्तहरा वल्या मेधाग्निवलवर्द्धनाः ॥ १८ ॥ वर्ही दृक्श्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् । हितो बल्यो गुरुश्चोष्णो वातघ्नो मांसशुक्रलः ॥१९ पारावतो गुरुः शीतो रक्तपित्तहरः स्मृतः । रसे पाके च मधुरः कषायो विषदोऽपि च ॥२०॥ तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः । शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ॥२१॥ कषायः स्वादुलवणो गुरुः काणकपोतकः ॥२२॥ कपिञ्जलो गौरतित्तिरिः । एतेन पूर्वोक्ततित्तिरिशब्दस्य गोवलीवर्दन्यायात् कृष्णतित्तिरिपरत्वमित्याहुः ॥ १६ ॥ क्रकरः प्रसिद्धो लावसद्दशः कपिञ्जलात् स्थूलः । उपचक्रकः क्रकरभेदः । कृष्णचञ्चुर्मदाविल इति डल्हणः । चकोरभेद इति तु त्रिविक्रमः ॥ १८ ॥ पारावत इति । गृहवासी पारावतः । वनवासिकपोतस्य वक्ष्यमाणत्वात् ॥ २० ॥ वनवासिनः कपोता इति वनवासिपारावता इत्यर्थः । न तु वनवासिपाण्डुकपोताः तेषां काणकपोतत्वेन अपथ्यतमत्वा- दित्याहुः ॥ २१ ॥