भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 53, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 53

द्रव्यगुणः । ४५ लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते॥३४ चरोऽनूपजलाकाशधन्वायो भक्ष्यसंविधिः । इति । भक्ष्यसंविधिर्भक्षणम् । तत्रानूपजलाकाशधन्वाय इत्यनेन गतिरूपश्चर उच्यते । भक्ष्यसंविधिरित्यनेन भक्ष्यरूप- श्चर उच्यते । एतत् उदाहरणं यथा । जलजानूपजाश्चैव जलानूपचराश्च ये । गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः । लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥ इति । अत्र जलजत्वेन च जले वा अनूपे वा गतिरेव दर्श्यते । न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते । प्रायः काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह जलानूपचराश्च य इति । एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम् । एवमनू- पचराद्यपि ज्ञेयम्। गुरुभक्ष्या इत्यादिना तु भक्ष्यरूपचरकृतगुण- कथनम् । धन्वजा धन्वचारिण इत्यपि गतिरूपचरगुणकथ- नम् । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन बाहुल्येन आकाशचारिणामपि श्येनादीनां स्वजातिप्रसङ्घान्तरापेक्षया लाघवं बोध्यम् आकाशस्य लघुत्वात् । ये तु ब्रुवते आकाश- चारिणां गौरवलाघवानियमादकथनमिति । तन्न । तथा सति आकाशस्य अप्रयोजनकत्वेन चरोऽनूपजलाकाशधन्वाद्य इत्या- काशकथनं निष्प्रयोजनं स्यात् । एवञ्च देशविशेषाद्भक्ष्यविशेषाच्च मृगादीनां गौरवं लाघवं वा निर्देश्यमिति चरपरीक्षाप्रयोजन- मिति भावः । शरीरावयव इति शरीरावयवपरीक्षाप्रयो- जनम् । यथा ऊरुग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । इति । श्लो०- सक्थिमांसाद्गुरुतरं क्रोड़स्कन्धशिरस्पदम् ॥