द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 54, कुल 176 में से
संदर्भ में पढ़ें४६ द्रव्यगुणः । इत्यादि । स्वभाव इति स्वभावस्तद्रव्यजातिप्रभवः स्वाभा- विको धर्मः । तत् प्रतिनियतं गुरुलाघवम् । यथा स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः । इत्यादि । धातव इति शोणितादयः । तदुदाहरणञ्च धातूनां शोणिताद्यानां गुरु विद्यात् यथोत्तरम् । इति । क्रियेति क्रिया चेष्टा तद्यथा अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः । इति । विशिष्यन्त इति लघुत्वेन विशिष्टा भवन्तीत्यर्थः । लिङ्गमिति लिङ्गं स्त्रीत्वादि यदाह गौरवं लिङ्गसामान्ये पुंसां स्त्रीणास्तु लाघवम् । इति । लिङ्गसामान्य इति जातिसामान्ये । तथाच हारीतः चतुष्पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान् । इति । जतुकर्णेऽप्युक्तम् बन्ध्या छागी प्रशस्ता स्यादभावे वर्करीमता । तथाच पराशरः । चतुष्पात्सु स्त्रियो ग्राह्याः पुंमांसो विहगेषु च । इति । यत्तु भाषितं काशिराजेन छागमेव नपुंसकं तदनार्षं सर्वतन्त्रविरोधात् । प्रमाणमिति महाशरीरा गुरवः स्वजातौ लघवोऽन्यथेति । संस्कारोऽन्यथात्वं तद्यथा मांसरसगुणनिर्देशे सुश्रुतः स्नेहगोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं गुरुं विद्यादिति । चरकेऽपि गुरूणां लाघवं विद्यात् संस्कारात् सविपर्य्ययम् । व्रीहेर्लाजा यथाच स्युः शक्तूनां सिद्धपिण्डकाः ॥ इति । सविपर्य्ययमिति संस्काराल्लघूनामपि गौरवं विद्या- दित्यर्थः । गुरोरपि व्रीहेर्लाजा लघव इत्यर्थः । लघूनां...