भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 55, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 55

द्रव्यगुणः । ४७ कृशात् स्वयं मृतान्मांसं विषव्याड़हतादपि । बालं तोयाग्निविक्निन्नं रोगिशुष्कं न पूजितम् ॥ अगोचरभृतं यच्च मेध्यं वृद्धं तथैव च । सिद्धं पर्युषितं तद्वद्दुर्गन्धि ग्रथितञ्च यत् ॥ क्रिमिजग्धञ्च यन्मांसमायुष्कामो विवर्जयेत् ॥ ३५॥ एभ्योऽन्येषामुपादेयं मांसं दोषविवर्जितम् । लावतित्तिरिसारङ्गकुरङ्गैकपिञ्जलाः ॥ मयूरवर्म्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥ ३६ ॥ शक्तूनां सिद्धपिण्डका गुरव इत्यर्थः । सिद्धपिण्डका इत्याग्निपा- चिताः पिण्डाः । मात्रेति मात्रावशाद् गुरूणामपि लघुत्वं लघू- नामपि गुरुत्वमित्यर्थः । तदुक्तम् । अल्पादाने गुरूणान्तु लघूनाञ्चातिसेवने । मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥ इति । मात्रा चेति चकारेण वह्निरनुक्तोऽपि मात्रायाः कारणभूतः समुच्चीयते । तेन मात्राया भूयस्त्वाल्पीयस्त्वेनाग्नि- रपि परीक्ष्यत इत्यर्थः । तेनाग्निवलमभिसमीक्ष्य भूयसी अल्पी- यसी वा मात्रा कार्य्येति केचित् । एवं चरादिकं परितः सर्वतो- भावेन विचार्य्य मांसादिद्रव्याणां गुरुलाघवं वाच्यमिति पिण्डार्थः ॥ ३४ ॥ यादृशं मांसमनुपादेयं तदाह कृशादिति । अगोचरभृतमि- त्यानूपं धन्वदेशे पुष्टम् । मेध्यमिति मेदुरम् । सिद्धं पर्युषित- मिति पक्वं सत् पर्युषितम् ॥ ३५ ॥ उपादेयमाह एभ्य इति । सारङ्गो गौरहरिणः । वर्म शकलं तदस्यास्तीति वर्मी रोहितः तदुक्तं चरके रोहितो मत्स्या-