भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 56, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 56

४८ द्रव्यगुणः। पोताधानास्तु सर्वेषां सुस्निग्धा लघुदीपनाः । महाप्रमाणा गुरवः क्रियावन्तोऽल्पचेष्टिनः ॥३७॥ मत्स्याण्डानि विशेषेण वातपित्तहराणि च । ज्ञेयानि हृद्यरुच्यानि कटुपाकीनि चैवहि ॥३८॥ हंसवीजं परं बल्यं वृंहणं वातनाशनम् । पाके लघुतरं प्रोक्तं सर्वामयविवर्जितम् ॥ ३९ ॥ विष्टम्भिनः शुष्कमत्स्या अबल्या दुर्जरा मताः । सिङ्गला ग्रहणीदोषशमनी पवनापहा ॥ ४० ॥ इति मांसादिवर्गः । शाकानि प्रायशस्तानि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्चांसि सृष्टविण्मरुतानि च ॥ १ ॥ पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद् यथोत्तरम् ॥२॥ नामिति। ब्रह्मदेवोऽपि वर्मी महाशकलो रोहितभेदः न तु सर्पाकारमत्स्य इत्याह ॥ ३६ ॥ इति मांसादिवर्गः । अत्र व्यञ्जनेषु श्रेष्ठत्वात् प्रथमं मांसगुणमभिधाय अनन्तरं शाकगुणे वाच्ये प्रथमं शाकानां सामान्यगुणमाह शाकानीति ॥१॥ तत्र शाकभेदेन गुणभेदमभिधातुं शाकभेदमाह पत्रमिति । संस्वेदजमिति छत्रकादि ॥ २ ॥

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश) · पृष्ठ 56, कुल 176 में से · BharatKosha