द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 57, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः । ४६ जीवन्ती सर्वदोषघ्नी चक्षुष्या मधुरा हिमा ॥३॥ तण्डुलीयमसृक्पित्तविषनुत् स्वादुपाकतः ॥४॥ वास्तूकस्तु सरो हृद्यो दोषनुत् पाकतो लघुः । सक्षारः क्रिमिहा मेध्यो रुच्योऽग्निवलवर्द्धनः ॥५॥ लघुपत्री तु या चिल्लो सा वास्तूकसमा मता ॥६॥ तत्र शाकेषु जीवन्ती श्रेष्ठा । उक्तं हि वाग्भटे वरा शाकेषु जीवन्ती मारिषस्त्ववरः स्मृतः । इति । तद्गुणमाह जीवन्तीति । जीवन्ती स्वनामख्याता स्वर्णनाड़ इति चक्रः । सा द्विधा मधुरा अमधुरा च । तत्र मधुराया एव त्रिदोषहन्तृत्वम् । अमधुरायास्तु वातपित्तह- न्तृत्वमेव । तदुक्तं वृद्धवाग्भटे चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा । शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु ॥ तत्रामधुरायाः किञ्चिन्न्यूनत्वेन न त्रिदोषहरत्वमिति बोध- यति । अतएवाह चरकः भण्डी शतावरीशाकं बला जीवन्तिजञ्च यत् । पर्वेच्छाः सर्वपुष्पाश्च वातपित्तहरं मतम् ॥ इति ॥ ३ ॥ तण्डुलीयं क्षुद्रमारिषः । पाकत इत्यनन्तरं चकारो लुप्त- निर्दिष्टो ज्ञेयः । तेन रसतोऽपि स्वादुरित्यर्थः ॥ ४ ॥ दोषनुदिति । त्रिदोषहरः पाकतो लघुरिति कटुरित्यर्थः । उक्तञ्च कटुविपाके क्रिमिहा मेधाग्निवलवर्द्धनः । सक्षारः सर्वदोषघ्नो वास्तूको रोचनः परः । चरकेऽपि त्रिदोषघ्नत्वमुक्तम् ॥ ५ ॥ ५