द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 92, कुल 176 में से
संदर्भ में पढ़ें८४ द्रव्यगुणः । शृतशीतं त्रिदोषघ्नं यदन्तर्वाष्पशीतलम् । शीतीकृतन्तु विष्टम्भि दुर्जरं पवनाहतम् ॥ ३२ ॥ न तत् पर्युषितं देयं कदाचिदपि जानता । व्यम्लीभवेत् पर्युषितं कफक्लेदि पिपासवे ॥ ३३ ॥ शृतं तोयं दिवा रात्रौ गुरु रात्रिश्रुतं दिवा ॥ ३४ ॥ क्वाथ्यमानन्तु यत्तोयं निष्फेनं निर्मलीकृतम् । भवत्यर्द्धावशिष्टन्तु तदुष्णोदकमिष्यते ॥ ३१ ॥ शृतशीतजलगुणमाह शृतशीतमिति । अन्तर्वाष्पं सत् कालप्रतीक्षया शीतलमित्यर्थः । पवनाहतं पवनेन शीतीकृत- मिति भावः ॥ ३२ ॥ तदिति शृतशीतलं जलम् । अत्र देशादिभेदेन कथन- प्रकर्षापकर्षावपि बोध्यौ यदाह वृद्धवाग्भटः । क्षीणपादत्रिभागाद्धं देशर्त्तु गुरुलाघवात् । धन्वसाधारणानूपेषु देशेषु तथा शीतोष्णवर्षोपलक्षिते च ऋतुत्रये यथाक्रमं क्षयितचतुर्भागत्रिभागाद्धं सलिलमुपयोज्य- मित्यर्थः । अत्रैवार्थे माधवकरस्तन्त्रान्तरमन्यादृशं लिखति तद्यथा शारदं सार्द्धपादोनं पादहीनन्तु हैमनम् । शिशिरे च वसन्ते च ग्रीष्मे चार्द्धावशेषितम् ॥ अष्टभागावशिष्टन्तु कारयेत् प्रावृषं जलम् । तदुभयमपि प्रमाणं स्मृतिद्वैविध्यवत् ॥ ३३ ॥ अस्यैव शृतजलस्य विशेषान्तरमाह शृतमिति । दिवा शृतं तोयं रात्रौ गुरु भवति । रात्रिश्रुतन्तु दिवा गुरु भवती- त्यर्थः ॥ ३४ ॥