द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 93, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। ८५ भौमानाम्भसां प्रातः सर्वेषां ग्रहणं मतम्। तदा हि शैत्यं नैर्मल्यं तौ चापां परमौ गुणौ ॥ ३५ आन्तरीक्षन्तु वर्षासु कौपमौद्भिदमेव च। अगस्त्योदयनैर्मल्यात् सर्वं शरदि शस्यते ॥ सरस्तड़ागसम्भूतं हेमन्ते जलमिष्यते। कौपचौण्डे वसन्ते तु ग्रीष्मे प्रास्रवणौद्भिदे ॥ कौपं प्रावृषि सर्वं वा संस्कृतं वारि चेष्यते ॥ ३६ ॥ हठशैवलपङ्कादिसञ्छन्नं दोषलञ्च तत्। इदानीं भौमानां जलानां ग्रहणकालमाह भौमाना- मिति ॥ ३५ ॥ इदानीं कालविशेषे जलविशेषोपयोगमाह आन्तरीक्ष- मिति ॥ ३६ ॥ ननु वर्षासु आन्तरीक्षमिति यदुक्तं तन्नोपपद्यते जतूकर्णि- दिविरोधात्। तथा हि वर्षासु चरन्ति घनैः महोरगा वियति कीटलूताश्च। तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम् ॥ इत्यनेन खजलस्य वर्षासु निषेधात्। अन्यत्राप्युक्तम्। वलाहकाद्याः सविषाः कीटलूताश्च खेचराः। तद्विषोत्सर्गसंसर्गादग्राह्यं तत्तदा जलम् ॥ इति। अत्र केचित् वर्षाशब्दो वर्षान्ते आश्वयुजे वर्त्तते तेनाश्विने गृहीतस्यान्तरीक्षस्यैव तत्रोपयोगः। भाद्रे तु आन्त- रीक्षजलानुकारिणो भौमजलस्य कौपौद्भिदयोर्वा उपयोग इति न विरोध इत्याहुः। तन्न। आश्विने अगस्त्योदयेन सर्वजल- स्यैव प्रसन्नत्वादिति प्रतिनियमानुपपत्तेः। किञ्च माहेन्द्रं तप्त- ८