भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 98, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 98

६० द्रव्यगुणः। हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं वरम्। ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ॥ शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् ॥७॥ उष्णमैकशफं बल्यं शाखावातहरं पयः। ईषदम्लं स्वादु रूक्षं लवणानुरसं लघु ॥ ८ ॥ नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम्। नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ॥६॥ क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा १० पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम्। तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ॥ ११ ॥ महिषीक्षीरं गव्यस्नेहादूनं हीनम्। गव्यक्षीरात् पुनः स्नेहा- धिकमेवेत्यर्थ इति चन्द्रिका। अन्ये तु स्नेहान्यूनमिति पठित्वा स्नेहाधिकमित्यर्थं कुर्व्वन्ति ॥ ६ ॥ एकः शफः खुरो यासां ता एकशफाः। अत्राश्वाया इति वक्तव्ये यदैकशफमिति सामान्यशब्दप्रयोगं करोति तद्बेगसरी- प्रभृतीनामप्येकशफानां क्षीरग्रहणार्थम्। शाखावातहरमि- त्यत्र केचित् शाखाशब्देन बाहुसक्थ्यौ चाहुः। अन्ये तु वक्रादीनाहुः। धान्याम्लस्येवोभयत्राधारशक्तिप्रभावेण परस्पर- विरुद्धकार्य्यद्वयं भवति। तद्यथा वह्निरन्तः पित्तहरकरत्वम्। एवं शाखागतवातहरत्वम्। कुक्षिगतवातकरत्वञ्चास्याधारशक्ति- प्रभावेण मन्तव्यमित्याहुः ॥ ८ ॥ आश्च्योतनमक्षिपूरणम् ॥ ६ ॥ क्षीरसन्तानिका दुग्धसरः ॥ १० ॥