द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 98, कुल 176 में से
संदर्भ में पढ़ें६० द्रव्यगुणः। हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं वरम्। ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ॥ शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् ॥७॥ उष्णमैकशफं बल्यं शाखावातहरं पयः। ईषदम्लं स्वादु रूक्षं लवणानुरसं लघु ॥ ८ ॥ नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम्। नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ॥६॥ क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा १० पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम्। तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ॥ ११ ॥ महिषीक्षीरं गव्यस्नेहादूनं हीनम्। गव्यक्षीरात् पुनः स्नेहा- धिकमेवेत्यर्थ इति चन्द्रिका। अन्ये तु स्नेहान्यूनमिति पठित्वा स्नेहाधिकमित्यर्थं कुर्व्वन्ति ॥ ६ ॥ एकः शफः खुरो यासां ता एकशफाः। अत्राश्वाया इति वक्तव्ये यदैकशफमिति सामान्यशब्दप्रयोगं करोति तद्बेगसरी- प्रभृतीनामप्येकशफानां क्षीरग्रहणार्थम्। शाखावातहरमि- त्यत्र केचित् शाखाशब्देन बाहुसक्थ्यौ चाहुः। अन्ये तु वक्रादीनाहुः। धान्याम्लस्येवोभयत्राधारशक्तिप्रभावेण परस्पर- विरुद्धकार्य्यद्वयं भवति। तद्यथा वह्निरन्तः पित्तहरकरत्वम्। एवं शाखागतवातहरत्वम्। कुक्षिगतवातकरत्वञ्चास्याधारशक्ति- प्रभावेण मन्तव्यमित्याहुः ॥ ८ ॥ आश्च्योतनमक्षिपूरणम् ॥ ६ ॥ क्षीरसन्तानिका दुग्धसरः ॥ १० ॥