गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 119, कुल 286 में से
संदर्भ में पढ़ें३.] गदनिग्रहः । १०१ सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसम् । तच्चूर्णं शर्करायुक्तं मद्येनाम्लेन पाययेत् ॥ ३३० ॥ गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चास्मिन् रसोदनम् । मन्दाग्नौ सैन्धवाद्यं चूर्णम् । पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले ॥ ३३१ ॥ कुडवांशानि वृक्षाम्लं दाडिमं तिन्तिडीफलम् । एकैकं मारिचाजाज्योर्धान्यकार्धचतुर्थिका ॥ ३३२ ॥ कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् । रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित् ॥ ३३३ ॥ आमातीसारे पिप्पल्याद्यं चूर्णम् । पिप्पली चन्दनं मुस्तामुशीरं कटुरोहिणी । पाठा वत्सकबीजं च हरीतक्यो महौषधम् ॥ ३३४ ॥ एतदामसमुत्थानमतीसारं सवेदनम् । कफात्मकं सपित्तं च पुरीषं चाशु रुन्धति ॥ ३३५ ॥ पीनसे चव्याद्यं चूर्णम् । चव्याम्लवेतसकटुकत्रिकतिन्तिडीक- तालीसजीरकरुजादहनैः समांशैः । चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ३३६ ॥ कासेऽजमोदादिभस्मचूर्णम् । अजमोदा पलद्वन्द्वं हरिद्रा च बिडं तथा । सारस्तु खदिरस्यापि औद्भिदं लवणं तथा ॥ ३३७ ॥ अभया पौष्करं भार्गी एलाटङ्कणकट्फलम् । वृषापामार्गयोर्मूलं क्षारयुग्मं तथैव च ॥ ३३८ ॥ प्रत्येकं पलमानि रविपुष्यचतुष्पलम् । चूर्णीकृत्य ततो दद्यात्कुमारीरसभावनाम् ॥ ३३९ ॥