गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 122, कुल 286 में से
संदर्भ में पढ़ें१०४ आयुर्वेदीयग्रन्थमाला । [ गुटिकाधिकारः अम्लैश्र्च मद्यैः पातव्या घृतेन पयसा तथा । एषा काङ्कायनेनोक्ता गुटिका गुल्मनाशिनी ॥ १५ ॥ अर्शोहृद्रोगशमनी कृमीणां च विनाशिनी । गोमूत्रयुक्ता शमयेत्कफगुल्मं चिरोत्थितम् ॥ १६ ॥ क्षीरेण पित्तगुल्मं च मद्यैरम्लैश्च वातिकम् । त्रिफलारसमूत्रैश्च नियच्छेत्सान्निपातिकम् ॥ १७ ॥ रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् । गुल्मे निकुम्भाद्या गुटिका । निकुम्भरजनीपाठात्रिकटुत्रिफलाग्निकाः । बाला वृक्षकबीजं च चूर्णं स्यादनवो गुडः ॥ १८ ॥ पथ्याभिसहितं चूर्णं गवां मूत्रयुतं पचेत् । घनीभूतं तु गुटिकां कृत्वा खादेद्युक्तवान् ॥ १९ ॥ गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः । हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् ॥ २० ॥ विड्बन्धेऽभयावटकाः । पथ्याकटुत्रिकविडङ्गलत्वगेलाः सग्रन्थिकाः सचविकामलकाः समस्ताः । अक्षौ त्रिवृद्धवजटाचरणांघ्रिभागा दन्त्याश्च षड्गुणसितामधुमोदकाः स्युः ॥ २१ ॥ विद्भेदनाय सुकुमारतराः सुहृद्याः प्रोक्ताः प्रगाढतरविड़्भिधिकारिणस्ते । तावद्विरेचनकरा न भवन्ति याव- देभिरतः पिबति वारि नरः सुखोष्णम् ॥ २२ ॥ हृद्रोगगुल्मगुदजश्वयथुप्रमेह- पाण्डामयोदरविकारभगन्दरघ्नाः । स्थौल्याम्लवातविकृतिप्रशमार्थमेते- श्चूर्णा इमिराग्निरभयावटकाः प्रदिष्टाः ॥ २३ ॥