गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 121, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । सौवर्चलं कारवीं च पलिकानि प्रदापयेत् । त्वगेलापत्रकनकं कर्शाशं चात्र दापयेत् ॥ ३ ॥ गुडस्य च पलान्यत्र दापयेद्द्विगुणानि च । अभयागुटिका ह्येषा मन्दाग्नेस्तु दीपनी ॥ ४ ॥ वातशोणितमानाहं गुल्मं पञ्चविधं तथा । चतुरो ग्रहणीदोषानर्शांसि षड्विधानि च ॥ ५ ॥ कासं क्षयविवन्धं च शूलं हृज्जठराश्रयम् । भक्षिता नाशयेत्येषा भोज्या नियंत्रणया स्मृता ॥ ६ ॥ अर्शसि काङ्कायनवटकः । पथ्या पञ्चपलान्येकमजाज्या जीरकस्य च । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम् ॥ ७ ॥ पलाभिवृद्ध्या क्रमशौ यवक्षारपलद्वयम् । भल्लातकफलान्यष्टौ कन्दस्तद्विगुणो मतः ॥ ८ ॥ द्विगुणेन गुडैर्नैषां वटकानक्षसंमितान् । एकैकं भक्षयेत्प्रातस्तक्रमम्लं पिवेद्वनु ॥ ९ ॥ वह्निं संदीपयत्याशु ग्रहणीपाण्डुरोगजित् । काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ॥ १० ॥ कथितो वटको ह्येष गुदजानां विनाशनः । गुल्मे काङ्कायनगुटिका । सठीं पुष्करमूलं च वह्निं लवणपञ्चकम् । शृङ्गवेरं वचां चैव पलिकानि समाहरेत् ॥ ११ ॥ त्रिवृतायाः पलं कुर्यात्रीन् कर्षानथ हिङ्गुतः । यवक्षारपले द्वे च द्वे पले चाम्लवेतसात् ॥ १२ ॥ यवान्यजाजिमरिचं धान्याकं शीतपुष्पकम् । उपकुञ्च्यजमोदाभ्यां तथैवाष्टमिकामपि ॥ १३ ॥ मातुलुङ्गरसेनैता गुटिकाः कारयेद्भिषक् । तासामेकां पिवेद्द्वे वा तिस्रोऽथ च सुखाम्बुना॥ १४ ॥