भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

गदनिग्रहः । सौवर्चलं कारवीं च पलिकानि प्रदापयेत् । त्वगेलापत्रकनकं कर्शाशं चात्र दापयेत् ॥ ३ ॥ गुडस्य च पलान्यत्र दापयेद्द्विगुणानि च । अभयागुटिका ह्येषा मन्दाग्नेस्तु दीपनी ॥ ४ ॥ वातशोणितमानाहं गुल्मं पञ्चविधं तथा । चतुरो ग्रहणीदोषानर्शांसि षड्विधानि च ॥ ५ ॥ कासं क्षयविवन्धं च शूलं हृज्जठराश्रयम् । भक्षिता नाशयेत्येषा भोज्या नियंत्रणया स्मृता ॥ ६ ॥ अर्शसि काङ्कायनवटकः । पथ्या पञ्चपलान्येकमजाज्या जीरकस्य च । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम् ॥ ७ ॥ पलाभिवृद्ध्या क्रमशौ यवक्षारपलद्वयम् । भल्लातकफलान्यष्टौ कन्दस्तद्विगुणो मतः ॥ ८ ॥ द्विगुणेन गुडैर्नैषां वटकानक्षसंमितान् । एकैकं भक्षयेत्प्रातस्तक्रमम्लं पिवेद्वनु ॥ ९ ॥ वह्निं संदीपयत्याशु ग्रहणीपाण्डुरोगजित् । काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ॥ १० ॥ कथितो वटको ह्येष गुदजानां विनाशनः । गुल्मे काङ्कायनगुटिका । सठीं पुष्करमूलं च वह्निं लवणपञ्चकम् । शृङ्गवेरं वचां चैव पलिकानि समाहरेत् ॥ ११ ॥ त्रिवृतायाः पलं कुर्यात्रीन् कर्षानथ हिङ्गुतः । यवक्षारपले द्वे च द्वे पले चाम्लवेतसात् ॥ १२ ॥ यवान्यजाजिमरिचं धान्याकं शीतपुष्पकम् । उपकुञ्च्यजमोदाभ्यां तथैवाष्टमिकामपि ॥ १३ ॥ मातुलुङ्गरसेनैता गुटिकाः कारयेद्भिषक् । तासामेकां पिवेद्द्वे वा तिस्रोऽथ च सुखाम्बुना॥ १४ ॥

१०४ आयुर्वेदीयग्रन्थमाला । [ गुटिकाधिकारः अम्लैश्र्च मद्यैः पातव्या घृतेन पयसा तथा । एषा काङ्कायनेनोक्ता गुटिका गुल्मनाशिनी ॥ १५ ॥ अर्शोहृद्रोगशमनी कृमीणां च विनाशिनी । गोमूत्रयुक्ता शमयेत्कफगुल्मं चिरोत्थितम् ॥ १६ ॥ क्षीरेण पित्तगुल्मं च मद्यैरम्लैश्च वातिकम् । त्रिफलारसमूत्रैश्च नियच्छेत्सान्निपातिकम् ॥ १७ ॥ रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् । गुल्मे निकुम्भाद्या गुटिका । निकुम्भरजनीपाठात्रिकटुत्रिफलाग्निकाः । बाला वृक्षकबीजं च चूर्णं स्यादनवो गुडः ॥ १८ ॥ पथ्याभिसहितं चूर्णं गवां मूत्रयुतं पचेत् । घनीभूतं तु गुटिकां कृत्वा खादेद्युक्तवान् ॥ १९ ॥ गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः । हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् ॥ २० ॥ विड्बन्धेऽभयावटकाः । पथ्याकटुत्रिकविडङ्गलत्वगेलाः सग्रन्थिकाः सचविकामलकाः समस्ताः । अक्षौ त्रिवृद्धवजटाचरणांघ्रिभागा दन्त्याश्च षड्गुणसितामधुमोदकाः स्युः ॥ २१ ॥ विद्भेदनाय सुकुमारतराः सुहृद्याः प्रोक्ताः प्रगाढतरविड़्भिधिकारिणस्ते । तावद्विरेचनकरा न भवन्ति याव- देभिरतः पिबति वारि नरः सुखोष्णम् ॥ २२ ॥ हृद्रोगगुल्मगुदजश्वयथुप्रमेह- पाण्डामयोदरविकारभगन्दरघ्नाः । स्थौल्याम्लवातविकृतिप्रशमार्थमेते- श्चूर्णा इमिराग्निरभयावटकाः प्रदिष्टाः ॥ २३ ॥

गदनिग्रहः । १०५ पाण्डुरोगे वज्रकगुटिका । रोहिणीं चिरबिल्वं च कुटजं च फलत्रिकम् । मुस्तकं पिप्पलीमूलं यष्ट्याह्नं निम्बनागरम् ॥ २४ ॥ पकैनैषां कषायेण भावयेच्च शिलाजतु । शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥ २५ ॥ वांश्याः कर्कटशृङ्ग्याश्च मागध्याश्च पलं पलम् । धात्रीफलपलार्धं च व्याघ्रीमूलत्वचं तथा ॥ २६ ॥ पत्रत्वगेला गन्धार्थं दत्त्वा चूर्णानि कारयेत् । तं विमर्द्य यथान्यायं दद्यान्मधुपलत्रयम् ॥ २७ ॥ वर्तयेद्वटकानेतानुदुम्बरफलोपमान् । तत्रैव भक्षयेत्कल्के सानुपानं यथाबलम् ॥ २८ ॥ विडङ्गरसयूषैश्च सुरारिष्टासवादिभिः । क्षीरैर्वा दाडिमाम्लैर्वा पथ्यभोजी पिबेन्नरः ॥ २९ ॥ स जयेत्पाण्डुरोगासृग्दुष्टमेहगलग्रहान् । यक्ष्मकासांश्च वातादीन् श्वासशोफोदरामयान् ॥ ३० ॥ रोगानीकप्रणाशार्थं सृष्टा भगवता पुरा । वज्रकेति समाख्याता वटिकेऽयं महागुणा ॥ ३१ ॥ नैव दद्यात्कृतघ्नाय नास्तिकोयोद्धताय च । इष्टाय संप्रयोक्तव्या ब्राह्मणाय विशेषतः ॥ ३२ ॥ शूले शम्बूकाद्या गुटिका । पलानि त्रीणि शम्बूकाल्लोहचूर्णात्पलद्वयम् । रसाञ्जनात्पलं चैकं लोहकिट्टात्पुनः पलम् ॥ ३३ ॥ सर्वैः समां शर्करां च मधुना च परिप्लुताम् । सर्वमेतत्समाहृत्य मोदकान्कारयेद्भिषक् ॥ ३४ ॥ तान् भक्षयेत्प्रयत्नेन शूले गुल्मे हृदामये । विशेषतः पित्तशूले शोफे पाण्डूदरे भ्रमे ॥ ३५ ॥

१०६ आयुर्वेदौयग्रन्थमाला। [गुटिकाधिकारः दुर्नाम्नि कासे कृच्छ्रे च प्रमेहाश्मरिवृद्धिषु । अग्निमान्द्ये स्मृतिभ्रंशे पीनसार्धावभेदके ॥ ३६ ॥ कल्याणवटकाः । विडङ्गं पिप्पलीमूलं त्रिफलाधान्यचित्रकान् । मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पली- ॥ ३७ ॥ लवणान्यजमोदं च चूर्णितं कार्षिकं पृथक् । तिलतैलं त्रिवृच्चूर्णं भागौ चाष्टपलोन्मितौ ॥ ३८ ॥ धात्रीरसस्य प्रस्थांस्त्रीन् गुडार्धकतूलां तथा । पक्त्वा मृदग्निना खादेदुत्तार्योदुम्बरोपमान् ॥ ३९ ॥ गुडान् कृत्वा विचार्या स्याद्विहाराचारयन्त्रणा । मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥ ४० ॥ अस्त्रमं च यकृच्छूलं कासं शोषं गरं विषम् । कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरम् ॥ ४१ ॥ ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते । कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ॥४२॥ क्षतक्षीणे एलाद्य गुटिका । एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा । सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ ४३ ॥ संचूर्ण्य मधुना युक्त्या गुटिकाः संप्रकल्पयेत् । अक्षतुल्यां ततश्चैकां भक्षयेत्तां दिने दिने ॥ ४४ ॥ कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदभ्रमम् । रक्तनिष्ठीवनं तृष्णां पार्श्वशूलसमरोचकम् ॥ ४५ ॥ शोषप्लीहाढ्यवातांश्च स्वरभेदं तथा क्षयम् । गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ ४६ ॥ क्षतक्षीणे सर्पिर्गुटिका । बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा । पञ्चानां क्षीरवृक्षाणां शुङ्गा मुस्तंञ्चका अपि ॥ ४७ ॥

एषां कषाये द्विक्षीरे विदार्याः स्वरसांशके । जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम् ॥ ४८ ॥ सितापलानि पूतेऽस्मिञ्छीते द्वात्रिंशदावपेत् । गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥ ४९ ॥ सक्षौद्रं कुडवं शीतं तत्सर्वं खजमूर्च्छितम् । स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥ ५० ॥ ताञ्जग्ध्वा पलिकान्क्षीरं मद्यं चानुपिबेत्कफे । शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्शिते ॥ ५१ ॥ रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते । शस्ता पार्श्वशिरःशूले भेदे च हस्तपादयोः ॥ ५२ ॥ पाण्डुरोगे मण्डूरवटकाः । पञ्चकोलं समरिचं देवदारुफलत्रिकम् । विडङ्गमुस्तं तुल्यानि भागांस्तु पलसंमितान् ॥ ५३ ॥ यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः । पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत् ॥ ५४ ॥ ततोऽक्षमात्रान्वटकान् पिबेत्तक्रेण तक्रभुक् । पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ॥ ५५ ॥ अर्शांसि ग्रहणीदोषशोफमूत्रहलीमकम् । क्रिमीन्प्लीहानमुदरं हृद्रोगं चाशु नाशयेत् ॥ ५६ ॥ मण्डूरवटका ह्येते रोगानीकप्रणाशनाः । पाण्डुरोगे द्वितीयो मण्डूरवटकः । त्र्यूषणं त्रिफला मुस्तविडङ्गं चव्यचित्रकौ ॥ ५७ ॥ दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च । एतान् द्विपलिकान् भागांश्चूर्णं कृत्वा पृथक् पृथक् ५८॥ मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् । मूत्रमष्टगुणं कृत्वा तस्मिंश्च प्रक्षिपेत्ततः ॥ ५९ ॥ शनैः सिद्धं ततः शीताः कार्याः कर्षसमा गुडाः ।

१०८ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः यथाग्नि भक्षणीयास्ते प्लीहपाण्डामयापहाः ॥ ६० ॥ ग्रहप्यर्शोनुदश्चैव तक्रवाव्याशिनः स्मृताः । शोषे क्षारगुटिका । क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च । सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम् ॥ ६१ ॥ कलिङ्गवं चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम् । सहिङ्गुकर्षलवणं शुष्कचूर्णं द्रोणं तथा मूलकशुण्ठिकानाम् ॥६२॥ स्याद्भस्मनस्तं सलिलेन साध्यमालोड्य यावद्धनमप्रदग्धम् । वर्ती ततः कोलसमानमात्रां कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् ॥ प्लीहोदरश्वित्रहलीमकार्शःपाण्डामयारोचकशोषशोफान् । विषूचिकागुल्मगराश्मरींश्च सश्वासकासान् प्रणदेत्सकुष्ठान् ६४ कुष्ठे विडङ्गसाराद्या गुटिकाः । विडङ्गसारामलकाभयानां पलं पलं स्यात्रिवृतात्रयं च गुडस्य च द्वादश एष योगो मासेन त्रिंशद्गुटिकोपयोगः ॥६५ इयं हि कुष्ठज्वरगुल्मपाण्डुता- भगन्दरश्वासगरोदराशसाम् । प्रणाशनी यक्षपतिः स्वयं ददौ स माणिभद्रः किल शाक्यभिक्षवे ॥ ६६ ॥ कुष्ठे माणिभद्रवटकः । विडङ्गामलकं पथ्या पलांशाश्च समा त्रिवृत् । गुडश्च सर्वद्विगुणो मासस्यं वटकाः कृताः ॥ ६७ ॥ कुष्ठानि पिडकार्शासि कृमिगुल्मोदराणि च । कासं श्वासं च शमयेद्विशेषान्माणिभद्रकः ॥ ६८ ॥ अर्शसि सूरणवटकाः । षोडश सूरणभागा वह्नेरष्टौ महौषधस्यापि । अर्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्धेन ॥ ६९ ॥ १ त्रिंशद्वटकाः कार्या इत्यर्थः ।

.] गदनिग्रहः । १०९ त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम् । भागा महौषधसमा दहनांशा तालमूली च ॥ ७० ॥ भागः सूरणतुल्यो दातव्यो वृद्धदारुकस्यापि । भृङ्गेले मरिचांशे चूर्णेऽस्मिन्योजयेन्मतिमान् ॥ ७१ ॥ द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामध्नैः । गुरुवृष्यमोज्यरहितेष्वितरेषूपद्रवान्कुरुते ॥ ७२ ॥ भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन । भीमस्य मारुतेरपि येन ते महाशना जाताः ॥ ७३ ॥ अग्निबलवृद्धिहेतुर्न केवलं सूरणो महावीर्यः । प्रभवति शस्त्रक्षाराग्निभिर्विनाप्यर्शसामेषः ॥ ७४ ॥ श्वयथुश्लीपदगरजिद्रहणीं च कफानिलाजाताम् । नाशयति वलीपलितं मेधां कुरुते वृषत्वं च ॥ ७५ ॥ हिक्कां कासं श्वासं सराजयक्ष्मप्रमेहांश्च । प्लीहानमप्यथोग्रं हन्ति च रसायनं पुंसाम् ॥ ७६ ॥ अर्शसि लघुसूरणवटिकाः । चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्धा नवचित्रकस्य । महौषधाद्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥७७॥ अर्शोरोगे मरिचाद्या गुटिकाः । मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसुचूर्णितान् । शिखिचतुर्गुणसूरणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदे ॥ ७८ ॥ अर्शसि कलिङ्गाद्या गुटिकाः । कलिङ्गलाङ्गलीकृष्णायश्चपामार्गपिप्पली- । भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः ॥ ७९ ॥ गुल्मे गुडवटकाः । गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः । १०

११० आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः विनिहन्ति भक्ष्यमाणा गुल्मार्शोविहिसादगदान् ॥ ८० ॥ अतिसारेऽभयाद्या वटकाः । अभयागुडपिप्पल्यः समांशा वटकीकृताः । मक्षिता हन्त्यतीसारमर्शःपाण्ड्वामयज्वरान् ॥ ८१ ॥ सर्वातिसारेऽङ्कोलवटिका । पलमङ्कोलमूलस्य पाठां दार्वीं च तत्समाम् । पिष्ट्वा तण्डुलतोयेन वटिकामक्षसंमिताम् ॥ ८२ ॥ छायाशुष्कां पिबेत्क्षिप्रं पिष्ट्वा तण्डुलवारिणा । वातपित्तकफप्रायान् द्वन्द्वजान् सान्निपातिकान् ॥८३॥ हन्यात्सर्वातिसारांस्तु वटिकेयं प्रयोजिता । सर्वातिसारे बृहदङ्कोलवटिका । सदार्व्यङ्कोलपाठानां मूलं तु कुटजस्य च । शाल्मलेरथ निर्यासो धातकौरौध्रदाडिमम् ॥ ८४ ॥ पिष्ट्वाऽक्षसंमितान् कृत्वा वटकांस्तण्डुलाम्भसा । तानेव मधुसंयुक्तानेकैकान् प्रातरुत्थितः ॥ ८५ ॥ पिबेदत्यन्तमापन्नो विधिसर्गेण मानवः । अङ्कोलवटका नाम्ना सर्वातीसारनाशनाः ॥ ८६ ॥ अतिसारे कट्वङ्गाद्या गुटिका । पलानि दश कट्वङ्गाङ्गे पले पञ्चकत्वचः । स्थिराया बिल्वपेश्याश्च पलान्यष्टौ पृथक् पृथक् ॥८७॥ कटुकादाञ्जनोशीररोघ्रयष्ट्याह्वमुस्तकान् । कालीयकं व्याघ्रनखं हरिद्रारक्तचन्दनम् ॥ ८८ ॥ करञ्जफलचूतास्थिदाडिमत्वग्विधुन्तुकाः केतक्यर्जुनपुष्पाणि वल्कान्यक्षपियालयोः ॥ ८९ ॥ समङ्गा शालवीजानि ग्रन्थिश्चाप्यरिमेदतः । फलस्य, वत्सकफलं संक्षुद्य पलसंमितम् ॥ ९० ॥ द्विद्रोणं विपचेदम्भः पूत्वा क्वाथं पचेदनु । पिण्डमक्षसमं तस्माद्घृतमादाय बुद्धिमान् ॥ ९१ ॥

४.] गदनिग्रहः । १११ कारयेद्गुटिकां श्लक्ष्णां ग्रसतोऽधौ सुखाम्बुना । अनृक्षतैलसंयुक्तां कफपित्तानिलार्तिषु ॥ ९२ ॥ केवले सन्निपाते च ततस्तक्रं पिबेदनु । तक्रेणैवानुभुञ्जीत नरोऽतीसारपीडितः ॥ ९३ ॥ मृत्युपाशान् जयेच्छीघ्रमियं सम्यक् प्रयोजिता । अतिसारसमुत्थानं मृत्युमप्यागतं जयेत् ॥ ९४ ॥ ग्रहण्यां चित्रकाद्या गुटिका । चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिङ्ग्वजमोदं च चव्यं चैकत्र चूर्णयेत् ॥ ९५ ॥ गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९६ ॥ ग्रहण्यां क्षारगुटिका । द्वे पञ्चमूल्यौ त्रिवृता निकुम्भा पाठा वचास्फोटबलाश्च रास्ना । सकारवीचित्रकमर्कमूलं पृथक् पृथक् तानि पलैर्दशाख्यैः ९७ भस्मीकृतान्यम्भसि गालयित्वा पचेत्तुलां जीर्णगुडस्य सम्यक्। द्वे पञ्चमूल्यौ यवश्शूकजं च क्षारं तथा खर्जिकासंज्ञिकं च ॥९८॥ व्योषं वचां चैव हरीतकीं च पृथक् पलानां सह चित्रकेण । हिङ्ग्वम्लभल्लातकमक्षतुल्यं विपाचयेत्क्षारगुडं यथावत् ॥९९॥ ततोऽक्षमात्रा गुटिका प्रयोज्या कायाग्निहीनैरबलैर्नरैश्च । सश्लेष्मकासारुचिगुल्मवृद्धौ कफश्च कण्ठोरसि यस्य तिष्ठेत् १०० कुष्ठप्रमेहान् श्वयथुं च हन्याद्वातामयप्लीहयकृद्भवांश्च । अन्नं हि भुक्तं जरयेच्च शीघ्रं युक्तो रसैः क्षारगुडप्रयोगः १०१ तालीसाद्या गुटिका । तालीसचव्यं मरिचं पलार्धांशानि वामरात् । अध्यर्धं पिप्पलीमुलात्पिप्पल्याश्च पलं पलम् ॥ १०२॥ कर्षं तु नागपुष्पस्य त्रुटीकर्षार्धमेव च । त्वक्पत्रोशीरकर्षस्तु चूर्णानि त्रिगुणितो गुडः ॥ १०३ ॥

११२ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः ततोऽक्षमात्रा गुटिका मद्ययूषपयोरसैः । पीताऽम्भसा भक्षिता वा सर्वान् हन्याद्गुदोद्भवान् १०४ शूलं पानात्ययं छर्दिं प्रमेहं विषमज्वरान् । गुल्मं पाण्डुरुजं शोफं हृद्रोगं ग्रहणीगदान् ॥ १०५ ॥ कासहिकारुचिश्वासकृम्यतीसारकामलाः । मन्दाग्नितां मूत्रकृच्छ्रं हन्याच्छोफं च सा भृशम् १०६ एतदेव भवेच्चूर्णं सिताचूर्णचतुर्गुणम् । सपित्तेषु विकारेषु विशेषेणामृतोपमम् ॥ १०७ ॥ सा चैव गुटिका पथ्या फलत्रयविशेषिता । शोफार्शोग्रहणीरोगपाण्डुशूलापहारिणी ॥ १०८ ॥ क्षयसप्रे लघुतालीसादिवटिका । तालीसपत्रमरिचंचविकानां पलं पलम् । कृष्णा तन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम् ॥ १०९ ॥ चातुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम् । तत्र त्रिंशत्पलं दद्यात्कथितादमलाद्गुडात् ॥ ११० ॥ तालीसवटका ह्येते क्षयघ्ना दीपनाः परम् । लवङ्गाद्या गुटिका । पलार्धं तु लवङ्गस्य तालीसत्रुटिवल्कलम् ॥ १११ ॥ यवानीचव्यकाजाजीधान्यकं च पलोन्मितम् । द्विपलं मरिचं कृष्णा वृक्षाम्लं साम्लवेतसम् ॥११२॥ कृष्णायाश्च जटा शुण्ठी पथ्या च कुडवोन्मिता । एतत्सर्वं समाहृत्य त्रिगुणेन गुडेन तु ॥ ११३ ॥ ततोऽर्धपलिकाः कार्या गुटिकास्तु भिषग्वरैः । एकैकश्चस्तास्तु पिबेन्मद्यतक्ररसासवैः ॥ ११४ ॥ भक्षिता येन तस्यार्शःपाण्डुहृत्पार्श्वशूलनुत् । कासगुल्मारुचिश्वासहिक्कामयगलग्रहान् ॥ ११५ ॥

४.] गदनिग्रहः । ११३ ज्वरातिसारं तन्द्रां च सेविता हन्ति वेगतः । कुष्ठे तुवरास्थिवटकाः । हरीतकी शक्रयवाः पटोलफलपुष्करम् ॥ ११६ ॥ बाकुची राजवृक्षश्च वह्न्यर्कमूलमेव च । आवर्तकीफलं चैव भागवृद्ध्या यथोत्तरम् ॥ ११७ ॥ यावन्त्यमूनि तुल्यानि तुवरास्थां च संभवा । मज्जा खदिरसंसिद्धा गोमूत्रकथिता पुनः ॥ ११८ ॥ सैर्वरैभिः कर्षमात्रां गुटिकां कारयेद्भिषक् । प्राश्यैनामनुगोमूत्रं पिबेच्चापि पलत्रयम् ॥ ११९ ॥ जीर्णज्वरे तत्क्षीणे वा घृतमुष्णोदनं भजेत् । सप्ताहं तिलतैलेन निष्पावकङ्गुसेवनम् ॥ १२० ॥ तक्रानुपानं मासं च तत्परं सर्वभुग्भवेत् । क्षाराम्लवर्जी जयति सर्वकुष्ठानि मानवः ॥ १२१ ॥ कुष्ठे खदिरादिवटिका । खदिराद्वीजकान्निम्बात्कुटजाच्छाळसारतः । पञ्चाशत्पलिकान् भागान् गोमूत्रस्याढकद्वयम् ॥१२२॥ जलद्रोणद्वये चापि सुगुप्तं दिवसान् दश । दशरात्रस्थितं तत्त कषायमनुसाधयेत् ॥ १२३ ॥ अध्यर्धाढकशेषं तु पुनरग्नावधिश्रयेत् । चूर्णीकृतान्यथेमानि भेषजान्यत्र दापयेत् ॥ १२४ ॥ भल्लातकानि त्रिफलां विडङ्गानि वचां तथा । चित्रकावल्गुजौ चैव भागान् दशपलांशकान् ॥१२५॥ दद्याद्वायसिमूलाच्च पलानां पञ्चविंशतिः । घनीभूतं तु तं ज्ञात्वा गुटिकां कारयेद्भिषक् ॥ १२६॥ तां भक्षयेत कुष्ठार्तः पथ्यभोजी जितेन्द्रियः । कुष्ठानि नाशयत्येषा छिन्नाभ्राणीव मारुतः ॥ १२७॥

११४ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः] कुष्ठे विषगुटिकाः । त्रिफलाव्योषयष्ट्याह्वविषं तुल्यानि पेषयेत् । भृङ्गाम्बुना तु गुटिकाः कुर्याच्चणकसंमिताः ॥ १२८ ॥ एकैकां वर्धयेत्तावदष्टावसान्न वर्धयेत् । आस्तिकेन कृतो योगो विजयेद्वातजान् गदान्॥१२९॥ अशीतिं विंशतिं श्लेष्मभवांस्तप्त महाक्षयान् । अष्टादशैव कुष्ठानि सन्नमग्निं च दीपयेत् ॥ १३० ॥ कुष्ठे लाङ्गलीगुटिकाः । लाङ्गलीत्रिवृतालोहचूर्णं दशपलं पृथक् । त्रिंशत्तु गुटिकाः पथ्याः कुर्याद्भृङ्गरसप्लुताः ॥ १३१ ॥ छायाशुष्कां च तत्रार्धां गुटिकां भक्षयेत्ततः । जीर्णे रसेन रूक्षेण पेया, पूर्वं न भोजयेत् ॥ १३२ ॥ यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि । खादेत्प्रातस्तु मासैकं भवेत्कामचरः क्रमात् ॥ १३३ ॥ एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि । धीमेधास्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् १३४ कण्ड्वां त्रिजातगुटिकाः । त्रिजातत्रिफलाव्योषं सूक्ष्मचूर्णं तु कारयेत् । तत्तुल्यं त्रिवृताचूर्णं शर्कराक्षौद्रमेव च ॥ १३५ ॥ बद्ध्वात्र मोदकान्द्वै तान् भक्षयेच्च यथाबलम् । विरेक एष प्रबलस्तथा कण्डूविनाशनः ॥ १३६ ॥ मुखरोगे खदिरगुटिका । तुलां खदिरसारस्य द्विगुणां त्वरिमेदतः । प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत् ॥ १३७॥ द्रोणशेषं कषायं तु पूत्वा भूयः पचेच्छनैः । ततस्तस्मिन्घनीभूते चूर्णं कृत्वाऽक्षभागिकम् ॥ १३८ ॥ चन्दनं पद्मकोशीरं मञ्जिष्ठाधातकीघनम् । प्रपौण्डरीकयष्ट्याह्वत्वगेलापत्रकेसरम् ॥ १३९ ॥

गदनिग्रहः । ११५ लाक्षां रसाञ्जनं मांसीत्रिफलारोध्रवालुकम् । रजन्यौ फलिनीमेलां समङ्गां कट्फलं वटम् ॥ १४० ॥ यवासागरुपत्तङ्गैरैकाञ्जनमावपेत् । लवङ्गजातीकङ्कोलजातीकोशान् पलोन्मितान् ॥१४१॥ कर्पूरकुडवं चापि पुनः शीतेऽवतारयेत् । ततस्तु गुटिकाः कार्याः शुष्कास्त्वास्ये निधापयेत् १४२ तैलमेतेन कल्केन कषायेण समावपेत् । शूलप्रबलविभ्रंशशौषिर्यकृमिदन्तनुत् ॥ १४३ ॥ जाड्यदौर्गन्ध्यतिक्तत्वमुखप्रक्लेदपाकजित् । गलशोषपरीदाहसादसंदोहलेपहृत् ॥ १४४ ॥ दन्तास्यगलपाकेषु सर्वेष्वेवतत्परायणम् । मुखरोगे द्वितीयखदिरगुटिका । खदिरस्य तुलां शुद्धां जलद्रोणे विपाचयेत् ॥ १४५ ॥ शेषेऽष्टभागे तस्यैव पुनः कल्कं प्रदापयेत् । जातीकर्पूरपूगानि सकङ्कोलपलानि च ॥ १४६ ॥ इत्येषां गुटिका कार्या मुखसौभाग्यवर्धनी । दन्तोष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥ १४७ ॥ मुखरोगे तृतीया खादिरगुटिका । कुङ्कुमलवङ्गपत्रत्वक्त्रुटिशङ्खाम्बुजानि तुल्यानि । कङ्कोलजातिमृगमदभागैस्त्रिगुणीकृतैः सम्यक् ॥१४८॥ पञ्चाशत्खदिरस्य भागाः सप्तैव शशधरस्यापि । सहकारतैलयुक्ताः खदिरगुटिकाश्च रोगघ्न्यः ॥ १४९ ॥ गलरोगे मरिचाद्या गुटिका । मरिचं पिप्पली पाठा यवक्षारं सनागरम् । एलापत्रत्वचं पथ्या सैन्धवं चाम्लवेतसम् ॥ १५० ॥ मधुना गुटिका ह्येषा कण्ठरोगविनाशिनी ।

११६ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः गलरोगे पिप्पल्यादिक्षारगुटिका । पिप्पलीनामेक कर्षं मरिचानां तथैव च । दाडिमस्य पलार्धं च गुडस्य च पलद्वयम् ॥ १५१ ॥ यवक्षारार्धकर्षं च गुटिकां कारयेद्भिषक् । मुखेन धारिता हन्ति कासश्वासगलामयान् ॥ १५२ ॥ कफरोगे वत्सनाभाद्या गुटिका । वत्सनाभवल्लयुगं वल्लषट्कं त्रिकटुकचूर्णस्य । चित्रकवल्लद्वितयं पिप्पलीमूलस्य वल्लयुगम् ॥ १५३ ॥ अभयावल्ला द्वादश द्वादशद्विगुणा च गुग्गुलोर्वल्लाः । गुटिका धार्या वदने क्षणदायां कफविनाशार्थम् ॥१५४॥ त्रिकटुकाद्या गुटिका । त्रिकटुत्रिफलादुरालभाद्विनिशेदारुवचाः सचित्रकाः । रसगन्धककर्कटाह्वया रुचककट्फलहिङ्गुपत्रिकाः ॥ १५५ ॥ इति दर्शितभेषजैर्गुटी मधुना कर्षमिता कृता नृणाम् । प्रणिहन्ति निषेविता नरैः पवनासृक्कफकोपजान्विकारान् १५६ भार्ग्यादिगुटिका । मार्गी सकृष्णा द्विनिशेन्दुकान्तापथ्याबिभीत्वचकुष्ठविश्वाः । कन्यारसेनापि गुटिर्विधेया सश्वासकासामरुचिं निहन्ति १५७ ज्वरे त्रिवृताद्यो मोदकः । त्रिवृतापिप्पलीयुक्तो गुडसर्पिर्विभावितः । मण्डानुपानो दातव्यो मोदकः सन्निपातहा ॥ १५८ ॥ कम्पिल्लकाद्यो मोदकः । कम्पिल्लकत्रिवृत्कृष्णापथ्यानागरकैरपि । सितागुडयुतो ह्येष मोदको ज्वरिणां हितः ॥ १५९ ॥ शीतानुपानस्तृट्छर्दिनाशनः पित्तरोगजित् । त्रिफलाद्यो मोदकः । समुद्भवोषत्रिफलं शर्करात्रिवृतार्धकम् ॥ १६० ॥

४.] गदनिग्रहः । ११७ मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुनः । पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ १६१ ॥ ज्वरे सप्तलाद्यो मोदकः । सप्तला पिप्पलीमूलं श्यामा दन्ती पृथक् पृथक् । समं दशपलैर्भागैर्दशमूली तुलासमा ॥ १६२ ॥ हरीतक्यक्षधात्रीणां प्रस्थं प्रस्थं समावपेत् । जलद्रोणद्वये पक्वं पूतं पादावशेषितम् ॥ १६३ ॥ विडङ्गं मुस्तकं श्यामां शङ्खिनीं मालतीमपि । त्रिवृत्योषणयुतं ह्येतत्कृत्वा चूर्णं रसे क्षिपेत् ॥ १६४ ॥ वटकानक्षमात्रांस्तु वातश्लेष्मकृते ज्वरे । शूले पक्वाशयस्थे च शुद्ध्यर्थे भक्षयेदिमान् ॥ १६५ ॥ आमे कृष्णाद्या गुटिका । कृष्णाशताह्वाशुण्ठीनामभयानां पलं पलम् । गुडस्य षट्पलान्येषां गुटिका अमनाशिनी ॥ १६६ ॥ ज्वरातिसारे कट्फलाद्या वटकाः । कट्फलबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् । लाक्षा हरिद्रे ह्रीबेरं कट्फलं शुकनासिकाम् ॥ १६७ ॥ रोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकान् । पिष्ट्वा तण्डुलतोयेन वटकानक्षसंमितान् ॥ १६८ ॥ छायाशुष्कान्पिबेत्क्षिप्रं ज्वरातीसारशान्तये । रक्तपित्तप्रशमनान् शूलातीसारनाशनान् ॥ १६९ ॥ प्लीहोदरे रोहितकवटकाः । भागा पञ्चदशार्धकोलिकभवा रोहीतकस्य त्रयः पथ्यायास्त्रय एव तद्द्विगुणितं संयोज्य सिद्धं गुडम् । चातुर्जातकभागसंगसुरभीनश्नन्नरो मोदकान् प्लीहार्शःश्वयथूदरज्वरवमीन् गुल्माग्निसादाञ्जयेत् १७०

११८ आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः गुडपाकविधिः । यदा दर्वीप्रलेपः स्याद्यावद्वा तन्तुली भवेत् । तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥ १७१ ॥ क्षिप्तोऽप्सु निश्चलस्तिष्ठेत्पतितश्च न शीर्यति । एष पाको गुडादीनां सर्वेषां परिकीर्तितः ॥ १७२ ॥ सुखमर्द्यः सुखस्पर्शो गन्धवर्णरसान्वितः । पीडितो भजते मुद्रां गुडः पाकमुपागतः ॥ १७३ ॥ धातुक्षये महाकल्याणको गुडः । पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् । धान्यकान् सविडङ्गानि यवानीमरिचानि च ॥ १७४ ॥ त्रिफलां चाजमोदां च नीलिनीं जीवकं तथा । सौवर्चलं सैन्धवं च सामुद्रं चौद्भिदं वचाम् ॥१७५॥ आरग्वधं त्वचं पत्रं सूक्ष्मैलानृपकुञ्चकम् । नागरेन्द्रयवांश्चैव षड़िंशत्येककार्षिकम् ॥ १७६ ॥ मृद्वीकायाः प्रधानाया दद्यात्पलचतुष्टयम् । त्रिवृतायाः पलान्यष्टौ रसमामलकस्य च ॥ १७७ ॥ प्रस्थं द्विगुणितं कृत्वा शनैर्मृद्वग्निना पचेत् यदा पक्कं विजानीयात्तदैनमवतारयेत् ॥ १७८ ॥ उदुम्बरं ह्रामलकं बदरं वा प्रयोजयेत् । यथाबलं प्रयुञ्जीत समीक्ष्य मतिमान् भिषक् ॥१६९॥ सर्वांश्च ग्रहणीदोषान्प्रमेहांश्चैव विंशतिः । अर्शांसि वातगुल्मांश्च कुष्ठानाहमगन्दरम् ॥ १८० ॥ उरोघातं प्रतिश्यायं हृद्रोगं चैव नाशयेत् । धातुक्षीणे बलक्षीणे स्त्रीभिः क्षीणे क्षये तथा ॥ १८१॥ ज्वराणां चैव सर्वेषां वन्ध्यानां चाप्यपत्यदम् । रूपौदार्यस्वरौदार्यमेधामाविन्दते स्थिराम् ॥ १८२ ॥

१.] गदनिग्रहः । ११५ महाकल्याणको ह्येष रसायनमनुत्तमम् । ग्रहण्यां कल्याणको गुडः । कृष्णात्वग्ग्रन्थिकं वह्निं दीप्यकोषणसैन्धवम् । कृमिघ्नत्रिफलाधान्यकोलाजाज्यजमोदकाः ॥ १८३ ॥ पालिकानि त्रिवृच्चूर्णतैलयोश्च पलाष्टकम् । रसप्रस्थत्रयं धात्र्या गुडस्यार्धशतं क्षिपेत् ॥ १८४ ॥ एतत्कल्याणको नाम ग्रहणीपाण्डुजित्परम् । ग्रहण्यां यवान्याद्या गुटिका । यवानीं धान्यकं बिल्वं चविकात्रुटिवल्कलम् । अम्लवेतसवृक्षाम्लं त्रिफला शिखिग्रन्थिकम् ॥१८५॥ सौवर्चलं सैन्धवं च हपुषां च हरीतकीम् । यष्टिकां सातलां स्पृक्कां पलमानानि चूर्णयेत् ॥१८६॥ गुडस्य तु पलान्यत्र दापयेद्विगुणानि तु । यवानीगुटिका ह्येषा ग्रहणीनाशनी परा ॥ १८७ ॥ चन्द्रप्रभा गुटिका । कीटघ्नेभकणाद्विमागधिजतामुस्ताशठीताप्यकं भूनिम्बत्रिफलासुराह्वचविकाव्योषं वचा धान्यकम् । रात्रीयुग्मविषात्रिवृत्रिलवणं क्षारत्रिजातान्वितं कर्षं कर्षमतः पुराद्दशपलं शैलेयकाष्टान्वितम् ॥१८८॥ लोहात्तत्र सिताचतुष्पलयुतं सार्द्धांशिकायाः पलं हन्त्यर्शांसि षडेव गुल्ममजयं शोषं क्षयं कामलाम् । नाडीमर्मगदाञ्जलोदररुजो दीर्घज्वरान्विद्रधीन् यक्ष्माणं सभगन्दरं कफमरुत्पित्तोद्भवं पाण्डुताम् १८९॥ तं तं व्याधिसमूहशुक्रविकृतीन्ग्रन्थ्यर्बुदश्लीपदान् मेहांश्शुक्रविनाशमश्मरीरुजस्त्वन्यांश्च देहस्थितान् । व्याधीन्हन्ति दृढाननेन विधिना चन्द्रप्रभा सेविता मन्दाग्नेः परमं प्रदीपनमियं कुर्याज्जरां जर्जराम्॥१९०॥

१२० आयुर्वेदियग्रन्थमाला । [गुटिकाधिकारः स्वेच्छाहारविधौ च पानविषये शीतातपे मैथुने । युक्तं नास्ति विरोधितं च सततं प्रोक्ता पुरा ब्रह्मणा १९१ पित्ते कल्याणक गुटिका । द्राक्षां नियोज्य विधिना द्विगुणां शिवायाः संचूर्ण्य ह्यक्षफलमात्रमितां प्रभाते । कल्याणकारककृतां गुटिकामिमां यः संसेवते भवति तस्य हि पित्तनाशः ॥ १९२ ॥ हृद्रोगरक्तविषमज्वरपाण्डुवान्ति- कुष्ठानि कासकमलारुचिमेहमुख्याः । आनाहगुल्मपिटकप्रभवा विकाराः सर्वेऽपि ते विलयमाशु सुखेन यान्ति ॥ १९३ ॥ अर्शसि प्राणदा गुटिका । त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च । द्वे पले पिप्पलीूलाच्चित्रकस्य पलं तथा ॥ १९४ ॥ सूक्ष्मैला कर्षमेकं तु कर्षं चोचमृणालयोः । अजमोदामजाजीं च सूक्ष्माण्येकत्र चूर्णयेत् ॥ १९५ ॥ गुडात्पलानि त्रिंशच्च सर्वमेकत्र कारयेत् । अक्षप्रमाणगुटिकाः प्राणदा इति विश्रुताः ॥ १९६ ॥ पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम् । मद्यं मांसरसं यूषं क्षीरं तोयं पिबेदनु ॥ १९७ ॥ हन्यादशांसि सर्वाणि सहजान्यसृजान्यपि । वातपित्तकफोत्थानि सन्निपातोद्भवानि च ॥ १९८ ॥ 'पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे । मन्दाग्नौ पाण्डुरोगे च तथैव विषमज्वरे ॥ १९९ ॥ कृमिहृद्रोगिणां चैव एताः स्युरमृतोपमाः । शृङ्ग्याः स्थानेऽभया देया विड्ग्रहे पित्तवायुजे ॥ २०० ॥

४.] गदनिग्रहः । १२१ प्राप्तदायां सितां दत्त्वा चूर्णमानाच्चतुर्गुणाम् । अम्लपित्ते सशूले च प्रयोज्या गुदजातुरे ॥ २०१ ॥ अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् । पलद्वयं चानिलजे पित्तजे तु पलत्रयम् ॥ २०२ ॥ वार्त्ताकगुटिका । चतुष्पलं सुधाकाण्डात्रिपलं लवणत्रयात् । वार्त्ताकात्कुडवं चार्काद्दन्तौ द्वे चित्रकात्पले ॥ २०३ ॥ दग्ध्वा रसेन वार्त्ताक्या वटिका भोजनोत्तरम् । कृता भुक्तं पचत्याशु कासश्वासार्शसां हिता ॥ २०४॥ विसूचिकाप्रतिश्यायहृद्रोगघ्नी च सा स्मृता । पाण्डुरोगेऽभयाद्यो मोदकः । अभया पिप्पलीमूलं मरिचं विश्वभेषजम् । पत्रत्वक्पिप्पलीमुस्ताविडङ्गामलकानि च ॥ २०५ ॥ एतानि समभागानि दन्ती च त्रिगुणा भवेत् । त्रिवृदष्टगुणा देया शर्करा चैव षड्गुणा ॥ २०६ ॥ मधुना मोदकान् कृत्वा मानतः कर्षसंमिताम् । एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम् ॥ २०७ ॥ तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते । पाण्डुत्वकासविषमज्वरवह्निसादान् प्लीहाक्षिरोगमथ चाश्मरिकामले च । हन्याद्रसायनमिदं भिषजा प्रयुक्त- मल्पव्ययं बहुफलं सततोपयोज्यम् ॥ २०८ ॥ गुल्मेऽभयाद्या वटकाः । हरीतकीनां द्विपलं ग्रन्थिकं वेतसं तथा । पलार्धं चार्थकर्षांशा व्योषवृक्षाम्लबाष्पिकाः ॥ २०९॥ यवानी चाजमोदा च कारवीशठिपौष्करम् । चव्यसौवर्चलविडं हपुषाजाजिधान्यकम् ॥ २१० ॥ ११

१२२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः कोलाम्लं दाडिमं चेति चातुर्जातं च कार्षिकम् । चूर्णं गुडद्विगुणितं कृत्वा तु वटकान्भजेत् ॥ २११ ॥ गुल्मानाहोदरप्लीहपाण्ड्वर्शोग्रहणीगदान् । कासातीसारपार्श्वार्त्तिश्वासरोगं च कामलाम् ॥ २१२ ॥ मदात्ययवमीमेहहिक्कापीनसपित्तजान् । शूलं ज्वरं च शमयेन्मृदीत्तिकराः परम् ॥ २१३ ॥ कृष्णात्रिस्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् । विषूचिकायां जीरकाद्या गुटिका । जीरकभागद्वितयमेको भागस्तथैव मरिचस्य । द्वौ भागौ सिन्धूत्थाद्द्विङ्गोर्भागश्चतुर्थांशः ॥ २१४ ॥ कार्या गुडेन वटिकाऽजीर्णालसकौ विषूचिकाध्मानौ । हन्ति सुखोदकपीताऽनुलोमनी मूढवातस्य ॥ २१५ ॥ बृहच्छिवगुटिका । काले रवितापाह्वे कृष्णायसे शिलाजतुप्रवरम् । त्रिफलारससंयुक्तं त्र्यहं विशुद्धं पुनः शुष्कम् ॥ २१६ ॥ दशमूलस्य गुडूच्या रसे बलायास्तथा पटोलस्य । मधुकरसे गोमूत्रे प्रहरं भावयेत्क्रमश एकाहम् ॥ २१७ ॥ क्षीरेण तु तत्परतो भावयित्वा गवां पुनः शुष्कम् । सप्ताहं भाव्यं स्यात्क्वाथेनैषां यथालाभम् ॥ २१८ ॥ काकोल्यौ द्वे मेदे विदारि युग्मं शतावरी द्राक्षा । ऋद्धियुगर्भभवीरामुण्डीतिकाजीरकांशुमत्यश्च ॥ २१९ ॥ रास्नापुष्करचित्रकदन्तीभकणाकलिङ्गचव्याब्दाः । कटुका शृङ्गी पाठा चेति पलांशानि कार्याणि ॥ २२० ॥ अष्टद्रोणसाधितानां रसेन पादांशकेन भाव्यानि । गिरिजस्यैव भावितशुद्धस्य पलानि दश षट् च ॥ २२१ ॥ द्विपलं च विश्वधात्रीमागधिकाकर्पटाख्यमरिचानाम् । चूर्णपलं च विदार्या तालीसपलानि चत्वारि ॥ २२२ ॥