गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 124, कुल 286 में से
संदर्भ में पढ़ें१०६ आयुर्वेदौयग्रन्थमाला। [गुटिकाधिकारः दुर्नाम्नि कासे कृच्छ्रे च प्रमेहाश्मरिवृद्धिषु । अग्निमान्द्ये स्मृतिभ्रंशे पीनसार्धावभेदके ॥ ३६ ॥ कल्याणवटकाः । विडङ्गं पिप्पलीमूलं त्रिफलाधान्यचित्रकान् । मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पली- ॥ ३७ ॥ लवणान्यजमोदं च चूर्णितं कार्षिकं पृथक् । तिलतैलं त्रिवृच्चूर्णं भागौ चाष्टपलोन्मितौ ॥ ३८ ॥ धात्रीरसस्य प्रस्थांस्त्रीन् गुडार्धकतूलां तथा । पक्त्वा मृदग्निना खादेदुत्तार्योदुम्बरोपमान् ॥ ३९ ॥ गुडान् कृत्वा विचार्या स्याद्विहाराचारयन्त्रणा । मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥ ४० ॥ अस्त्रमं च यकृच्छूलं कासं शोषं गरं विषम् । कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरम् ॥ ४१ ॥ ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते । कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ॥४२॥ क्षतक्षीणे एलाद्य गुटिका । एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा । सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ ४३ ॥ संचूर्ण्य मधुना युक्त्या गुटिकाः संप्रकल्पयेत् । अक्षतुल्यां ततश्चैकां भक्षयेत्तां दिने दिने ॥ ४४ ॥ कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदभ्रमम् । रक्तनिष्ठीवनं तृष्णां पार्श्वशूलसमरोचकम् ॥ ४५ ॥ शोषप्लीहाढ्यवातांश्च स्वरभेदं तथा क्षयम् । गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ ४६ ॥ क्षतक्षीणे सर्पिर्गुटिका । बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा । पञ्चानां क्षीरवृक्षाणां शुङ्गा मुस्तंञ्चका अपि ॥ ४७ ॥