गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 137, कुल 286 में से
संदर्भ में पढ़ें१.] गदनिग्रहः । ११५ महाकल्याणको ह्येष रसायनमनुत्तमम् । ग्रहण्यां कल्याणको गुडः । कृष्णात्वग्ग्रन्थिकं वह्निं दीप्यकोषणसैन्धवम् । कृमिघ्नत्रिफलाधान्यकोलाजाज्यजमोदकाः ॥ १८३ ॥ पालिकानि त्रिवृच्चूर्णतैलयोश्च पलाष्टकम् । रसप्रस्थत्रयं धात्र्या गुडस्यार्धशतं क्षिपेत् ॥ १८४ ॥ एतत्कल्याणको नाम ग्रहणीपाण्डुजित्परम् । ग्रहण्यां यवान्याद्या गुटिका । यवानीं धान्यकं बिल्वं चविकात्रुटिवल्कलम् । अम्लवेतसवृक्षाम्लं त्रिफला शिखिग्रन्थिकम् ॥१८५॥ सौवर्चलं सैन्धवं च हपुषां च हरीतकीम् । यष्टिकां सातलां स्पृक्कां पलमानानि चूर्णयेत् ॥१८६॥ गुडस्य तु पलान्यत्र दापयेद्विगुणानि तु । यवानीगुटिका ह्येषा ग्रहणीनाशनी परा ॥ १८७ ॥ चन्द्रप्रभा गुटिका । कीटघ्नेभकणाद्विमागधिजतामुस्ताशठीताप्यकं भूनिम्बत्रिफलासुराह्वचविकाव्योषं वचा धान्यकम् । रात्रीयुग्मविषात्रिवृत्रिलवणं क्षारत्रिजातान्वितं कर्षं कर्षमतः पुराद्दशपलं शैलेयकाष्टान्वितम् ॥१८८॥ लोहात्तत्र सिताचतुष्पलयुतं सार्द्धांशिकायाः पलं हन्त्यर्शांसि षडेव गुल्ममजयं शोषं क्षयं कामलाम् । नाडीमर्मगदाञ्जलोदररुजो दीर्घज्वरान्विद्रधीन् यक्ष्माणं सभगन्दरं कफमरुत्पित्तोद्भवं पाण्डुताम् १८९॥ तं तं व्याधिसमूहशुक्रविकृतीन्ग्रन्थ्यर्बुदश्लीपदान् मेहांश्शुक्रविनाशमश्मरीरुजस्त्वन्यांश्च देहस्थितान् । व्याधीन्हन्ति दृढाननेन विधिना चन्द्रप्रभा सेविता मन्दाग्नेः परमं प्रदीपनमियं कुर्याज्जरां जर्जराम्॥१९०॥