गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 138, कुल 286 में से
संदर्भ में पढ़ें१२० आयुर्वेदियग्रन्थमाला । [गुटिकाधिकारः स्वेच्छाहारविधौ च पानविषये शीतातपे मैथुने । युक्तं नास्ति विरोधितं च सततं प्रोक्ता पुरा ब्रह्मणा १९१ पित्ते कल्याणक गुटिका । द्राक्षां नियोज्य विधिना द्विगुणां शिवायाः संचूर्ण्य ह्यक्षफलमात्रमितां प्रभाते । कल्याणकारककृतां गुटिकामिमां यः संसेवते भवति तस्य हि पित्तनाशः ॥ १९२ ॥ हृद्रोगरक्तविषमज्वरपाण्डुवान्ति- कुष्ठानि कासकमलारुचिमेहमुख्याः । आनाहगुल्मपिटकप्रभवा विकाराः सर्वेऽपि ते विलयमाशु सुखेन यान्ति ॥ १९३ ॥ अर्शसि प्राणदा गुटिका । त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च । द्वे पले पिप्पलीूलाच्चित्रकस्य पलं तथा ॥ १९४ ॥ सूक्ष्मैला कर्षमेकं तु कर्षं चोचमृणालयोः । अजमोदामजाजीं च सूक्ष्माण्येकत्र चूर्णयेत् ॥ १९५ ॥ गुडात्पलानि त्रिंशच्च सर्वमेकत्र कारयेत् । अक्षप्रमाणगुटिकाः प्राणदा इति विश्रुताः ॥ १९६ ॥ पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम् । मद्यं मांसरसं यूषं क्षीरं तोयं पिबेदनु ॥ १९७ ॥ हन्यादशांसि सर्वाणि सहजान्यसृजान्यपि । वातपित्तकफोत्थानि सन्निपातोद्भवानि च ॥ १९८ ॥ 'पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे । मन्दाग्नौ पाण्डुरोगे च तथैव विषमज्वरे ॥ १९९ ॥ कृमिहृद्रोगिणां चैव एताः स्युरमृतोपमाः । शृङ्ग्याः स्थानेऽभया देया विड्ग्रहे पित्तवायुजे ॥ २०० ॥