गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 139, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । १२१ प्राप्तदायां सितां दत्त्वा चूर्णमानाच्चतुर्गुणाम् । अम्लपित्ते सशूले च प्रयोज्या गुदजातुरे ॥ २०१ ॥ अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् । पलद्वयं चानिलजे पित्तजे तु पलत्रयम् ॥ २०२ ॥ वार्त्ताकगुटिका । चतुष्पलं सुधाकाण्डात्रिपलं लवणत्रयात् । वार्त्ताकात्कुडवं चार्काद्दन्तौ द्वे चित्रकात्पले ॥ २०३ ॥ दग्ध्वा रसेन वार्त्ताक्या वटिका भोजनोत्तरम् । कृता भुक्तं पचत्याशु कासश्वासार्शसां हिता ॥ २०४॥ विसूचिकाप्रतिश्यायहृद्रोगघ्नी च सा स्मृता । पाण्डुरोगेऽभयाद्यो मोदकः । अभया पिप्पलीमूलं मरिचं विश्वभेषजम् । पत्रत्वक्पिप्पलीमुस्ताविडङ्गामलकानि च ॥ २०५ ॥ एतानि समभागानि दन्ती च त्रिगुणा भवेत् । त्रिवृदष्टगुणा देया शर्करा चैव षड्गुणा ॥ २०६ ॥ मधुना मोदकान् कृत्वा मानतः कर्षसंमिताम् । एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम् ॥ २०७ ॥ तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते । पाण्डुत्वकासविषमज्वरवह्निसादान् प्लीहाक्षिरोगमथ चाश्मरिकामले च । हन्याद्रसायनमिदं भिषजा प्रयुक्त- मल्पव्ययं बहुफलं सततोपयोज्यम् ॥ २०८ ॥ गुल्मेऽभयाद्या वटकाः । हरीतकीनां द्विपलं ग्रन्थिकं वेतसं तथा । पलार्धं चार्थकर्षांशा व्योषवृक्षाम्लबाष्पिकाः ॥ २०९॥ यवानी चाजमोदा च कारवीशठिपौष्करम् । चव्यसौवर्चलविडं हपुषाजाजिधान्यकम् ॥ २१० ॥ ११