गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 140, कुल 286 में से
संदर्भ में पढ़ें१२२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः कोलाम्लं दाडिमं चेति चातुर्जातं च कार्षिकम् । चूर्णं गुडद्विगुणितं कृत्वा तु वटकान्भजेत् ॥ २११ ॥ गुल्मानाहोदरप्लीहपाण्ड्वर्शोग्रहणीगदान् । कासातीसारपार्श्वार्त्तिश्वासरोगं च कामलाम् ॥ २१२ ॥ मदात्ययवमीमेहहिक्कापीनसपित्तजान् । शूलं ज्वरं च शमयेन्मृदीत्तिकराः परम् ॥ २१३ ॥ कृष्णात्रिस्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् । विषूचिकायां जीरकाद्या गुटिका । जीरकभागद्वितयमेको भागस्तथैव मरिचस्य । द्वौ भागौ सिन्धूत्थाद्द्विङ्गोर्भागश्चतुर्थांशः ॥ २१४ ॥ कार्या गुडेन वटिकाऽजीर्णालसकौ विषूचिकाध्मानौ । हन्ति सुखोदकपीताऽनुलोमनी मूढवातस्य ॥ २१५ ॥ बृहच्छिवगुटिका । काले रवितापाह्वे कृष्णायसे शिलाजतुप्रवरम् । त्रिफलारससंयुक्तं त्र्यहं विशुद्धं पुनः शुष्कम् ॥ २१६ ॥ दशमूलस्य गुडूच्या रसे बलायास्तथा पटोलस्य । मधुकरसे गोमूत्रे प्रहरं भावयेत्क्रमश एकाहम् ॥ २१७ ॥ क्षीरेण तु तत्परतो भावयित्वा गवां पुनः शुष्कम् । सप्ताहं भाव्यं स्यात्क्वाथेनैषां यथालाभम् ॥ २१८ ॥ काकोल्यौ द्वे मेदे विदारि युग्मं शतावरी द्राक्षा । ऋद्धियुगर्भभवीरामुण्डीतिकाजीरकांशुमत्यश्च ॥ २१९ ॥ रास्नापुष्करचित्रकदन्तीभकणाकलिङ्गचव्याब्दाः । कटुका शृङ्गी पाठा चेति पलांशानि कार्याणि ॥ २२० ॥ अष्टद्रोणसाधितानां रसेन पादांशकेन भाव्यानि । गिरिजस्यैव भावितशुद्धस्य पलानि दश षट् च ॥ २२१ ॥ द्विपलं च विश्वधात्रीमागधिकाकर्पटाख्यमरिचानाम् । चूर्णपलं च विदार्या तालीसपलानि चत्वारि ॥ २२२ ॥