भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 141, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 141

४.] गदनिग्रहः । १२३ षोडश सितापलानि तु चत्वारि घृतस्य माक्षिकस्याष्टौ । तिलतैलस्य द्विपलं चूर्णस्य पलानि पञ्च पञ्चानाम् ॥२२३॥ त्वक्क्षीरिपत्रत्वङ्नागेलानां च मिश्रयित्वा तु । गिरिजस्य षोडशपलैर्गुटिकाः कार्यास्ततोऽक्षसमाः ॥२२४॥ ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः । तासामेका काले भक्ष्या पेयापि वा सततम् ॥ २२५ ॥ क्षीररसदाडिमरसाः सुखासवा हिमकरशिशिरतोयानि । आलोडनाय तासामनुपाने वा प्रशस्यन्ते ॥ २२६ ॥ जीर्णे लघ्वन्नपयोजाङ्गलनिर्यूहयूषभोजी स्यात् । सप्ताहं भोजनमेवमतः परं भवेत्सर्वसामान्यम् ॥ २२७ ॥ भुक्त्वाऽपि भक्षितेयं यदृच्छया नावहेद्भयं किंचित् । निरुपद्रवा प्रयुक्ता सुकुमारैः कामिभिश्चैव ॥ २२८ ॥ संवत्सरं प्रयुक्ता हन्त्येषा वातशोणितं प्रबलम् । बहुवार्षिकमपि गाढं यक्ष्माणं चाढ्यवातं च ॥ २२९ ॥ ज्वरयोनिशुक्रदोषान् प्लीहार्शःपाण्डुहृद्ग्रहणीरोगान् । वर्ध्मवमिगुल्मपीनसहिक्काश्वासारुचिकासान् ॥ २३० ॥ जठरं श्वित्रं कुष्ठं षाण्ढ्यं क्लैब्यं क्षयं मदं शोषम् । उन्मादापस्मारौ वदनाक्षिशिरोगतात्रोगान् ॥ २३१ ॥ आनाहमतीसारमसृग्दरकामलां प्रमेहांश्च । गलगण्डापच्यर्बुदविद्रधिभगन्दरं रक्तपित्तं च ॥ २३२ ॥ अतिकार्श्यमतिस्थौल्यं स्वेदमपि श्लीपदं च विनिहन्ति । दंष्ट्राविषमतिभीमं गरलानि बहुप्रकाराणि ॥ २३३ ॥ मन्त्रौषधिप्रयुक्तानरियुक्तान् कौलिकांस्तथा सर्पान् । पापमलक्ष्मीं चेयं शमयेद्गुटिका शिवा नाम ॥ २३४ ॥ बल्या वृष्या धन्या कान्तियशःश्रीप्रजाकरी चेयम् । दद्यान्नृपवल्लभतां जयं विवादे मुखस्था च ॥ २३५ ॥