गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 135, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । ११७ मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुनः । पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ १६१ ॥ ज्वरे सप्तलाद्यो मोदकः । सप्तला पिप्पलीमूलं श्यामा दन्ती पृथक् पृथक् । समं दशपलैर्भागैर्दशमूली तुलासमा ॥ १६२ ॥ हरीतक्यक्षधात्रीणां प्रस्थं प्रस्थं समावपेत् । जलद्रोणद्वये पक्वं पूतं पादावशेषितम् ॥ १६३ ॥ विडङ्गं मुस्तकं श्यामां शङ्खिनीं मालतीमपि । त्रिवृत्योषणयुतं ह्येतत्कृत्वा चूर्णं रसे क्षिपेत् ॥ १६४ ॥ वटकानक्षमात्रांस्तु वातश्लेष्मकृते ज्वरे । शूले पक्वाशयस्थे च शुद्ध्यर्थे भक्षयेदिमान् ॥ १६५ ॥ आमे कृष्णाद्या गुटिका । कृष्णाशताह्वाशुण्ठीनामभयानां पलं पलम् । गुडस्य षट्पलान्येषां गुटिका अमनाशिनी ॥ १६६ ॥ ज्वरातिसारे कट्फलाद्या वटकाः । कट्फलबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् । लाक्षा हरिद्रे ह्रीबेरं कट्फलं शुकनासिकाम् ॥ १६७ ॥ रोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकान् । पिष्ट्वा तण्डुलतोयेन वटकानक्षसंमितान् ॥ १६८ ॥ छायाशुष्कान्पिबेत्क्षिप्रं ज्वरातीसारशान्तये । रक्तपित्तप्रशमनान् शूलातीसारनाशनान् ॥ १६९ ॥ प्लीहोदरे रोहितकवटकाः । भागा पञ्चदशार्धकोलिकभवा रोहीतकस्य त्रयः पथ्यायास्त्रय एव तद्द्विगुणितं संयोज्य सिद्धं गुडम् । चातुर्जातकभागसंगसुरभीनश्नन्नरो मोदकान् प्लीहार्शःश्वयथूदरज्वरवमीन् गुल्माग्निसादाञ्जयेत् १७०