भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

४.] गदनिग्रहः । ११७ मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुनः । पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ १६१ ॥ ज्वरे सप्तलाद्यो मोदकः । सप्तला पिप्पलीमूलं श्यामा दन्ती पृथक् पृथक् । समं दशपलैर्भागैर्दशमूली तुलासमा ॥ १६२ ॥ हरीतक्यक्षधात्रीणां प्रस्थं प्रस्थं समावपेत् । जलद्रोणद्वये पक्वं पूतं पादावशेषितम् ॥ १६३ ॥ विडङ्गं मुस्तकं श्यामां शङ्खिनीं मालतीमपि । त्रिवृत्योषणयुतं ह्येतत्कृत्वा चूर्णं रसे क्षिपेत् ॥ १६४ ॥ वटकानक्षमात्रांस्तु वातश्लेष्मकृते ज्वरे । शूले पक्वाशयस्थे च शुद्ध्यर्थे भक्षयेदिमान् ॥ १६५ ॥ आमे कृष्णाद्या गुटिका । कृष्णाशताह्वाशुण्ठीनामभयानां पलं पलम् । गुडस्य षट्पलान्येषां गुटिका अमनाशिनी ॥ १६६ ॥ ज्वरातिसारे कट्फलाद्या वटकाः । कट्फलबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् । लाक्षा हरिद्रे ह्रीबेरं कट्फलं शुकनासिकाम् ॥ १६७ ॥ रोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकान् । पिष्ट्वा तण्डुलतोयेन वटकानक्षसंमितान् ॥ १६८ ॥ छायाशुष्कान्पिबेत्क्षिप्रं ज्वरातीसारशान्तये । रक्तपित्तप्रशमनान् शूलातीसारनाशनान् ॥ १६९ ॥ प्लीहोदरे रोहितकवटकाः । भागा पञ्चदशार्धकोलिकभवा रोहीतकस्य त्रयः पथ्यायास्त्रय एव तद्द्विगुणितं संयोज्य सिद्धं गुडम् । चातुर्जातकभागसंगसुरभीनश्नन्नरो मोदकान् प्लीहार्शःश्वयथूदरज्वरवमीन् गुल्माग्निसादाञ्जयेत् १७०

११८ आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः गुडपाकविधिः । यदा दर्वीप्रलेपः स्याद्यावद्वा तन्तुली भवेत् । तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥ १७१ ॥ क्षिप्तोऽप्सु निश्चलस्तिष्ठेत्पतितश्च न शीर्यति । एष पाको गुडादीनां सर्वेषां परिकीर्तितः ॥ १७२ ॥ सुखमर्द्यः सुखस्पर्शो गन्धवर्णरसान्वितः । पीडितो भजते मुद्रां गुडः पाकमुपागतः ॥ १७३ ॥ धातुक्षये महाकल्याणको गुडः । पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् । धान्यकान् सविडङ्गानि यवानीमरिचानि च ॥ १७४ ॥ त्रिफलां चाजमोदां च नीलिनीं जीवकं तथा । सौवर्चलं सैन्धवं च सामुद्रं चौद्भिदं वचाम् ॥१७५॥ आरग्वधं त्वचं पत्रं सूक्ष्मैलानृपकुञ्चकम् । नागरेन्द्रयवांश्चैव षड़िंशत्येककार्षिकम् ॥ १७६ ॥ मृद्वीकायाः प्रधानाया दद्यात्पलचतुष्टयम् । त्रिवृतायाः पलान्यष्टौ रसमामलकस्य च ॥ १७७ ॥ प्रस्थं द्विगुणितं कृत्वा शनैर्मृद्वग्निना पचेत् यदा पक्कं विजानीयात्तदैनमवतारयेत् ॥ १७८ ॥ उदुम्बरं ह्रामलकं बदरं वा प्रयोजयेत् । यथाबलं प्रयुञ्जीत समीक्ष्य मतिमान् भिषक् ॥१६९॥ सर्वांश्च ग्रहणीदोषान्प्रमेहांश्चैव विंशतिः । अर्शांसि वातगुल्मांश्च कुष्ठानाहमगन्दरम् ॥ १८० ॥ उरोघातं प्रतिश्यायं हृद्रोगं चैव नाशयेत् । धातुक्षीणे बलक्षीणे स्त्रीभिः क्षीणे क्षये तथा ॥ १८१॥ ज्वराणां चैव सर्वेषां वन्ध्यानां चाप्यपत्यदम् । रूपौदार्यस्वरौदार्यमेधामाविन्दते स्थिराम् ॥ १८२ ॥

१.] गदनिग्रहः । ११५ महाकल्याणको ह्येष रसायनमनुत्तमम् । ग्रहण्यां कल्याणको गुडः । कृष्णात्वग्ग्रन्थिकं वह्निं दीप्यकोषणसैन्धवम् । कृमिघ्नत्रिफलाधान्यकोलाजाज्यजमोदकाः ॥ १८३ ॥ पालिकानि त्रिवृच्चूर्णतैलयोश्च पलाष्टकम् । रसप्रस्थत्रयं धात्र्या गुडस्यार्धशतं क्षिपेत् ॥ १८४ ॥ एतत्कल्याणको नाम ग्रहणीपाण्डुजित्परम् । ग्रहण्यां यवान्याद्या गुटिका । यवानीं धान्यकं बिल्वं चविकात्रुटिवल्कलम् । अम्लवेतसवृक्षाम्लं त्रिफला शिखिग्रन्थिकम् ॥१८५॥ सौवर्चलं सैन्धवं च हपुषां च हरीतकीम् । यष्टिकां सातलां स्पृक्कां पलमानानि चूर्णयेत् ॥१८६॥ गुडस्य तु पलान्यत्र दापयेद्विगुणानि तु । यवानीगुटिका ह्येषा ग्रहणीनाशनी परा ॥ १८७ ॥ चन्द्रप्रभा गुटिका । कीटघ्नेभकणाद्विमागधिजतामुस्ताशठीताप्यकं भूनिम्बत्रिफलासुराह्वचविकाव्योषं वचा धान्यकम् । रात्रीयुग्मविषात्रिवृत्रिलवणं क्षारत्रिजातान्वितं कर्षं कर्षमतः पुराद्दशपलं शैलेयकाष्टान्वितम् ॥१८८॥ लोहात्तत्र सिताचतुष्पलयुतं सार्द्धांशिकायाः पलं हन्त्यर्शांसि षडेव गुल्ममजयं शोषं क्षयं कामलाम् । नाडीमर्मगदाञ्जलोदररुजो दीर्घज्वरान्विद्रधीन् यक्ष्माणं सभगन्दरं कफमरुत्पित्तोद्भवं पाण्डुताम् १८९॥ तं तं व्याधिसमूहशुक्रविकृतीन्ग्रन्थ्यर्बुदश्लीपदान् मेहांश्शुक्रविनाशमश्मरीरुजस्त्वन्यांश्च देहस्थितान् । व्याधीन्हन्ति दृढाननेन विधिना चन्द्रप्रभा सेविता मन्दाग्नेः परमं प्रदीपनमियं कुर्याज्जरां जर्जराम्॥१९०॥

१२० आयुर्वेदियग्रन्थमाला । [गुटिकाधिकारः स्वेच्छाहारविधौ च पानविषये शीतातपे मैथुने । युक्तं नास्ति विरोधितं च सततं प्रोक्ता पुरा ब्रह्मणा १९१ पित्ते कल्याणक गुटिका । द्राक्षां नियोज्य विधिना द्विगुणां शिवायाः संचूर्ण्य ह्यक्षफलमात्रमितां प्रभाते । कल्याणकारककृतां गुटिकामिमां यः संसेवते भवति तस्य हि पित्तनाशः ॥ १९२ ॥ हृद्रोगरक्तविषमज्वरपाण्डुवान्ति- कुष्ठानि कासकमलारुचिमेहमुख्याः । आनाहगुल्मपिटकप्रभवा विकाराः सर्वेऽपि ते विलयमाशु सुखेन यान्ति ॥ १९३ ॥ अर्शसि प्राणदा गुटिका । त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च । द्वे पले पिप्पलीूलाच्चित्रकस्य पलं तथा ॥ १९४ ॥ सूक्ष्मैला कर्षमेकं तु कर्षं चोचमृणालयोः । अजमोदामजाजीं च सूक्ष्माण्येकत्र चूर्णयेत् ॥ १९५ ॥ गुडात्पलानि त्रिंशच्च सर्वमेकत्र कारयेत् । अक्षप्रमाणगुटिकाः प्राणदा इति विश्रुताः ॥ १९६ ॥ पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम् । मद्यं मांसरसं यूषं क्षीरं तोयं पिबेदनु ॥ १९७ ॥ हन्यादशांसि सर्वाणि सहजान्यसृजान्यपि । वातपित्तकफोत्थानि सन्निपातोद्भवानि च ॥ १९८ ॥ 'पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे । मन्दाग्नौ पाण्डुरोगे च तथैव विषमज्वरे ॥ १९९ ॥ कृमिहृद्रोगिणां चैव एताः स्युरमृतोपमाः । शृङ्ग्याः स्थानेऽभया देया विड्ग्रहे पित्तवायुजे ॥ २०० ॥

४.] गदनिग्रहः । १२१ प्राप्तदायां सितां दत्त्वा चूर्णमानाच्चतुर्गुणाम् । अम्लपित्ते सशूले च प्रयोज्या गुदजातुरे ॥ २०१ ॥ अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् । पलद्वयं चानिलजे पित्तजे तु पलत्रयम् ॥ २०२ ॥ वार्त्ताकगुटिका । चतुष्पलं सुधाकाण्डात्रिपलं लवणत्रयात् । वार्त्ताकात्कुडवं चार्काद्दन्तौ द्वे चित्रकात्पले ॥ २०३ ॥ दग्ध्वा रसेन वार्त्ताक्या वटिका भोजनोत्तरम् । कृता भुक्तं पचत्याशु कासश्वासार्शसां हिता ॥ २०४॥ विसूचिकाप्रतिश्यायहृद्रोगघ्नी च सा स्मृता । पाण्डुरोगेऽभयाद्यो मोदकः । अभया पिप्पलीमूलं मरिचं विश्वभेषजम् । पत्रत्वक्पिप्पलीमुस्ताविडङ्गामलकानि च ॥ २०५ ॥ एतानि समभागानि दन्ती च त्रिगुणा भवेत् । त्रिवृदष्टगुणा देया शर्करा चैव षड्गुणा ॥ २०६ ॥ मधुना मोदकान् कृत्वा मानतः कर्षसंमिताम् । एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम् ॥ २०७ ॥ तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते । पाण्डुत्वकासविषमज्वरवह्निसादान् प्लीहाक्षिरोगमथ चाश्मरिकामले च । हन्याद्रसायनमिदं भिषजा प्रयुक्त- मल्पव्ययं बहुफलं सततोपयोज्यम् ॥ २०८ ॥ गुल्मेऽभयाद्या वटकाः । हरीतकीनां द्विपलं ग्रन्थिकं वेतसं तथा । पलार्धं चार्थकर्षांशा व्योषवृक्षाम्लबाष्पिकाः ॥ २०९॥ यवानी चाजमोदा च कारवीशठिपौष्करम् । चव्यसौवर्चलविडं हपुषाजाजिधान्यकम् ॥ २१० ॥ ११

१२२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः कोलाम्लं दाडिमं चेति चातुर्जातं च कार्षिकम् । चूर्णं गुडद्विगुणितं कृत्वा तु वटकान्भजेत् ॥ २११ ॥ गुल्मानाहोदरप्लीहपाण्ड्वर्शोग्रहणीगदान् । कासातीसारपार्श्वार्त्तिश्वासरोगं च कामलाम् ॥ २१२ ॥ मदात्ययवमीमेहहिक्कापीनसपित्तजान् । शूलं ज्वरं च शमयेन्मृदीत्तिकराः परम् ॥ २१३ ॥ कृष्णात्रिस्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् । विषूचिकायां जीरकाद्या गुटिका । जीरकभागद्वितयमेको भागस्तथैव मरिचस्य । द्वौ भागौ सिन्धूत्थाद्द्विङ्गोर्भागश्चतुर्थांशः ॥ २१४ ॥ कार्या गुडेन वटिकाऽजीर्णालसकौ विषूचिकाध्मानौ । हन्ति सुखोदकपीताऽनुलोमनी मूढवातस्य ॥ २१५ ॥ बृहच्छिवगुटिका । काले रवितापाह्वे कृष्णायसे शिलाजतुप्रवरम् । त्रिफलारससंयुक्तं त्र्यहं विशुद्धं पुनः शुष्कम् ॥ २१६ ॥ दशमूलस्य गुडूच्या रसे बलायास्तथा पटोलस्य । मधुकरसे गोमूत्रे प्रहरं भावयेत्क्रमश एकाहम् ॥ २१७ ॥ क्षीरेण तु तत्परतो भावयित्वा गवां पुनः शुष्कम् । सप्ताहं भाव्यं स्यात्क्वाथेनैषां यथालाभम् ॥ २१८ ॥ काकोल्यौ द्वे मेदे विदारि युग्मं शतावरी द्राक्षा । ऋद्धियुगर्भभवीरामुण्डीतिकाजीरकांशुमत्यश्च ॥ २१९ ॥ रास्नापुष्करचित्रकदन्तीभकणाकलिङ्गचव्याब्दाः । कटुका शृङ्गी पाठा चेति पलांशानि कार्याणि ॥ २२० ॥ अष्टद्रोणसाधितानां रसेन पादांशकेन भाव्यानि । गिरिजस्यैव भावितशुद्धस्य पलानि दश षट् च ॥ २२१ ॥ द्विपलं च विश्वधात्रीमागधिकाकर्पटाख्यमरिचानाम् । चूर्णपलं च विदार्या तालीसपलानि चत्वारि ॥ २२२ ॥

४.] गदनिग्रहः । १२३ षोडश सितापलानि तु चत्वारि घृतस्य माक्षिकस्याष्टौ । तिलतैलस्य द्विपलं चूर्णस्य पलानि पञ्च पञ्चानाम् ॥२२३॥ त्वक्क्षीरिपत्रत्वङ्नागेलानां च मिश्रयित्वा तु । गिरिजस्य षोडशपलैर्गुटिकाः कार्यास्ततोऽक्षसमाः ॥२२४॥ ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः । तासामेका काले भक्ष्या पेयापि वा सततम् ॥ २२५ ॥ क्षीररसदाडिमरसाः सुखासवा हिमकरशिशिरतोयानि । आलोडनाय तासामनुपाने वा प्रशस्यन्ते ॥ २२६ ॥ जीर्णे लघ्वन्नपयोजाङ्गलनिर्यूहयूषभोजी स्यात् । सप्ताहं भोजनमेवमतः परं भवेत्सर्वसामान्यम् ॥ २२७ ॥ भुक्त्वाऽपि भक्षितेयं यदृच्छया नावहेद्भयं किंचित् । निरुपद्रवा प्रयुक्ता सुकुमारैः कामिभिश्चैव ॥ २२८ ॥ संवत्सरं प्रयुक्ता हन्त्येषा वातशोणितं प्रबलम् । बहुवार्षिकमपि गाढं यक्ष्माणं चाढ्यवातं च ॥ २२९ ॥ ज्वरयोनिशुक्रदोषान् प्लीहार्शःपाण्डुहृद्ग्रहणीरोगान् । वर्ध्मवमिगुल्मपीनसहिक्काश्वासारुचिकासान् ॥ २३० ॥ जठरं श्वित्रं कुष्ठं षाण्ढ्यं क्लैब्यं क्षयं मदं शोषम् । उन्मादापस्मारौ वदनाक्षिशिरोगतात्रोगान् ॥ २३१ ॥ आनाहमतीसारमसृग्दरकामलां प्रमेहांश्च । गलगण्डापच्यर्बुदविद्रधिभगन्दरं रक्तपित्तं च ॥ २३२ ॥ अतिकार्श्यमतिस्थौल्यं स्वेदमपि श्लीपदं च विनिहन्ति । दंष्ट्राविषमतिभीमं गरलानि बहुप्रकाराणि ॥ २३३ ॥ मन्त्रौषधिप्रयुक्तानरियुक्तान् कौलिकांस्तथा सर्पान् । पापमलक्ष्मीं चेयं शमयेद्गुटिका शिवा नाम ॥ २३४ ॥ बल्या वृष्या धन्या कान्तियशःश्रीप्रजाकरी चेयम् । दद्यान्नृपवल्लभतां जयं विवादे मुखस्था च ॥ २३५ ॥

१२४ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः श्रीमान्प्रकृष्टमेधास्मृतिबुद्धिबलान्वितो दृढशरीरः । पुष्टयोजोवर्णैन्द्रियतेजोबलसंपदोपेतः ॥ २३६ ॥ वलीपलितरोगरहितो जीवेच्छरदां शतद्वयं पुरुषः । संवत्सरप्रयोगाद्, द्वाभ्यां शतानि चत्वारि ॥ २३७ ॥ सर्वामयजिन्महितं मुनिभिर्भक्त्या रसायनवरिष्ठम् । शिवगुटिकेति प्रथितमुक्तं गिरिशेन गणपतये ॥ २३८ ॥ पाण्डुरोगे लघुशिवगुटिका । कुटजत्रिफलानिम्बपटोलघननागरैः । भावितानि दशाहानि रसैर्द्वित्रिगुणानि वै ॥ २३९ ॥ शिलाजतुपलान्यष्टौ तावती सितशर्करा । त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्यान् पलोन्मितान् ॥२४०॥ विदार्याः कन्दमूलस्यां पलं युक्त्यात्रिगन्धिकात् । मधुत्रिफलसंयुक्तं कुर्यादक्षसमान् गुडान् ॥ २४१ ॥ दाडिमाम्बुपयःक्षीररसयूषसुरासवान् । तान् भक्षयित्वानुपिबेन्निरन्नो युक्त एव च ॥ २४२ ॥ पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान् । हृच्छूलशुक्रमूत्राग्निदोषशोफगलोदरान् ॥ २४३ ॥ कासासृग्दरपित्तासृक्छ्लेष्मगुल्मगलामयान् । नेत्रवर्त्मगतान् हन्युः सर्वरोगहराः शिवाः ॥ २४४ ॥ कुष्ठे वज्रकगुटिकाः । शैलस्य धातो रजसां शिलाभ्यः सूर्यप्रतापाज्जतुसंनिकाशम् । कृष्णं स्रवेन्मूत्रसमानगन्धि शिलाजतु प्राज्ञतमास्तमाहुः २४५ रूप्यादिधातोर्गलितं दृषद्वयस्तेभ्यः प्रशस्तं प्रवदन्ति पूर्वम् । विक्षोभयेत्तत्सुदिने सुपूते द्विपञ्चमूलीसलिले कटाह ॥२४६॥ लोहे समालोड्य दिवाकरस्य संतापनं रश्मिभिरेव कुर्यात् । प्रवीतवातेस्तरमुद्गृहीत्वा पुनः पुनस्तन्मथवोद्धरेच्च ॥ २४७ ॥

१.] गदनिग्रहः । १२५ तावत्प्रदेयं सलिलं क्रमेण गाढश्च संदर्शनमेव यावत् । तावच्छिलाजत्वमिसन्निविष्टं समुद्धृतं यावदशेषतश्च ॥ २४८ ॥ अष्टौ पलान्यस्य विशोधितस्य ततः क्रमाद्भावयितुं भवेत् । द्विपञ्चमूल्यौ चिरबिल्वमुस्तापटोलनिम्बत्रिफलाः पलांशाः २४९ सपिप्पलीरोहिणीजीरकं च द्रोणेऽम्भसस्तान्द्रिपलान्यथोक्तान् । प्रकाथ्य चैवाष्टमभागशेषं तस्मात्सृजेद्भावनमल्पमल्पम् ॥ २५०॥ पात्रेऽथ लौहे परिशोषयेत्तत्पुनः पुनर्भावितमेव यावत् । पलद्वयं मागधिकर्कटारुबे चूर्णीकृते लोहरजःसमांशे ॥ २५१ ॥ पलं बृहत्याः सनिदिग्धिकायाः सितोपलामष्टपलोन्मितां तु । पलत्रयं वेणुजरोचनाया मधुत्रयं तद्विनिवेश्य कृत्वा ॥ २५२ ॥ त्रिषष्टिसंख्यान्वटकान्विधिज्ञः खादेत्सुसवारिपयोऽनुपानात् । रसेन वा लावकपिञ्जलानां तोयेन वा दाडिमसंस्कृतेन॥२५३॥ भुक्तैस्तथाऽभुक्तवति प्रदेया रोगार्दिते निष्परिहारिणी च । कुष्ठोदरश्वासगलामयांश्च भगन्दरान्मूत्रविबन्धगुल्मान् ॥२५४॥ यक्ष्माणमर्श्यांस सकासहिक्कां प्लीहां च हन्याद्विषमज्वरांश्च । वन्हेश्च दीप्तिं परमां करोति वलींश्च हन्यात्पलितानि चैव ॥२५५॥ सेव्या त्वियं वज्रकनामधेया मुनिप्रदिष्टा वटिका प्रधाना । वर्ज्याः कुलत्थाश्च सकाकमाच्यः कपोतमांसं च सदा प्रयोगे ॥ विषे सर्षपाद्या गुटिकाः । सर्पपाः पृश्निपर्णी च तगरं पद्मकेसरम् । हरितालं विडङ्गानि रोध्रद्राक्षाप्रियङ्गवः ॥ २५७ ॥ चन्दनं वालकं मांसी विशाला समनःशिला । श्रीवासकनिशादार्वीपद्मकं ध्याममेव च ॥ २५८ ॥ सुरसग्रसवाः स्पृक्का रोचना गन्धनाकुली । अम्लकं कुङ्कुमं दारु शौषेयं गिरिकर्णिकश्च ॥ २५९ ॥ जात्याः पुष्पं प्रवालं च पिप्पली मरिचानि च । सूक्ष्मैला सिन्दुवारं च यष्ट्याह्वं रोध्रमेव च ॥ २६० ॥

१३६ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः एतान्यङ्गानि षट्त्रिंशत्पुष्येण परिपेषिताम् । गुटिकां कोलमात्रां च छायाशुष्कां हि कारयेत् ॥२६१॥ नस्यपानाञ्जने चैषा सम्यग्लेपे च पूजिता । पुंसां सर्वविषार्तानां राजद्वारे रणे तथा ॥ २६२ ॥ वणिजां लाभकामानां विवादे च सदा हिता । सरीसृपा न तिष्ठन्ति यत्र तिष्ठति वेश्मनि ॥ २६३ ॥ अनया संप्रलिप्तस्य चौरवह्निभयं कुतः । सर्पदष्टभयं चापि जलराशिभयं न च ॥ २६४ ॥ भूतदोषे सिद्धार्थकाद्या गुटिका । सिद्धार्थकव्योषवचाश्वगन्धानिशाद्वयं हिङ्गु पलाशकं च । बीजं करञ्जात्कुसुमं शिरीषात्फलं च वल्कश्च कपित्थवृक्षात् ॥ समाणिमन्थं सनतं च कुष्ठं श्यानाकफलं किणिही सिता च । बस्तस्य मूत्रेण सुभावितं तत्पिचेन गन्व्य- गुडान्विदध्यात् ॥ दुष्टव्रणोन्मादनिशान्ध्ययुक्ता उद्वन्धका वारिनिमग्नदेहाः । दिग्घाहताः सर्पितसर्पदष्टास्तान्साधयत्यञ्जनपानलेपैः ॥२६७॥ शोषेऽश्वत्थवटकाः । मूलत्वक्पत्रशुङ्गानामश्वत्थस्य समाहरेत् । शतं शतावरीं मेदां मधुपर्णीं पुनर्नवाम् ॥ २६८ ॥ महासहां क्षुद्रसहां गुडूचीं श्रेयसीं शिवाम् । स्थिरां वयस्यां बृहतीं काकोलीं काकनासिकाम् ॥२६९ क्षीरद्रोणेषु दशसु पचेत्तत्सममात्रया । सिद्धं शीतं पुनः क्षीरं मन्थानेन विमन्थयेत् ॥ २७०॥ जायते यद्धृतं तत्र तदुद्धृत्य पुनः पचेत् । कल्कैर्मधुकजीवन्तीमधुकोत्पलजीवकैः ॥ २७१ ॥ द्राक्षामेदामहामेदावार्ताकीकण्टकारिका- । उच्चटात्रायमाणास्वंशृङ्गाटककसेरुकैः ॥ ३७२ ॥

४.] गदनिग्रहः । १२७ मज्जा तालस्य बीजानां पुष्करक्षं च केसरैः । धात्रीफलविदारीक्षुरसैः काश्मर्यजैः सह ॥ २७३ ॥ तत्सिद्धं कलशे ताम्रे कृतकौतुकमङ्गलः । उच्चटेशुरसक्षौद्रतुगाक्षीर्यांश्च बुद्धिमान् ॥ २७४ ॥ प्रस्थं प्रस्थं पृथग्दद्याच्छर्करार्धतुलां तथा । आत्मगुप्ताफलानां च कुडवं मरिचस्य च ॥ २७५ ॥ त्रिसुगन्धिकृतावार्पं मन्थानेन विमन्थितम् । पलिकान्मोदकान्कृत्वा स्थापयेन्मृन्मये नवे ॥ २७६ ॥ तेभ्यो द्वावप्यथवाप्येकं खादेद्योऽग्निबलं प्रति । मोदकं नियताहारो ब्रह्मचारी जितेन्द्रियः ॥ २७७ ॥ संहन्याद्यक्ष्मणः सद्य एकादशविधं बलम् । स्वरवर्णबलौदार्यतुष्टिपुष्टिविवर्धनम् ॥ २७८ ॥ आयुष्यं परमं चाग्र्यं भूतोपहतचेतसाम् । व्याकुलीकृतधातूनां वृद्धानां क्षीणरेतसाम् ॥ २७९ ॥ वाजीकरणमप्येतद्वन्ध्यानां पुत्रदं परम् । धनुस्त्रीमद्यभाराध्वखिन्नानां बलवर्धनम् ॥ २८० ॥ हृत्पार्श्वग्रहणीदोषमूत्रकृच्छ्रापतन्त्रकान् । अपस्मारं तथोन्मादं नाशयेत्तद्रसायनम् ॥ २८१ ॥ पाण्डुरोगे पुनर्नवामण्डूरः । पुनर्नवा त्रिवृच्छुण्ठी पिप्पली मरिचानि च । विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ २८२ ॥ हरिद्राद्वितयं दन्ती त्रिफला चविका तथा । कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ २८३ ॥ एतानि समभागानि मण्डूरं द्विगुणं ततः । मूत्रे चाष्टगुणे पक्त्वा स्थापयेत्स्निग्धभाजने ॥ २८४ । पाण्डुशोफोदरानाहशूलार्शःकृमिरोगनुत् ।

१२८ आयुवेर्दीयग्रन्थमाला । [गुटिकाधिकारः वातव्याधौ रसोनपिण्डः । पलं शतं रसोनस्य तिलस्य कुडवं तथा । हिङ्गु त्रिकटुकं क्षारौ द्वौ पञ्चलवणानि च ॥ २८५ ॥ शतपुष्पा वचा कुष्ठं पिप्पलीमूलचित्रकौ । अजमोदा यवानी च धान्यकं चापि बुद्धिमान् ॥२८६॥ प्रत्येकं च पलं चैषां सूक्ष्मचूर्णानि कारयेत् । घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडशम् ॥ २८७ ॥ प्रक्षिप्य तैलमार्णीं च प्रस्थार्धं काञ्जिकस्य च । खादेत्कर्षप्रमाणं च तोयं मद्यं पिबेदनु ॥ २८८ ॥ आमवाते तथा वाते सर्वाङ्गैकाङ्गसंश्रिते । अपस्मारेऽनले मन्दे कासे श्वासे गलेषु च ॥ २८९ ॥ सोन्मादे वातसंग्रहे शूले शत्रुषु शस्यते । वातव्याधौ बृहल्लशुनपिण्डः । चव्यचित्रकतालीसं यवनी धान्यकं वचा । अजमोदाऽश्वगन्धा च दाडिमं चाम्लवेतसम्॥ २९०॥ रास्त्राग्रन्थिविडङ्गाहमभयाजीरकद्वयम् । क्षारद्वयसमायुक्तं लवणत्रयसंयुतम् ॥ २९१ ॥ शतमूली बलं कुष्ठं व्योषं पूतीकरञ्जकम् । शतपुष्पाऽजगन्धा च शठी रामठसंयुतम् ॥ २९२ ॥ निस्तुषं लशुनं कृत्वा द्रव्याणां च चतुर्गुणम् । घृतेन मिश्रितं पिण्डमक्षमात्रं तु भक्षयेत् ॥ २९३ ॥ आढ्यवाते हनुस्तम्भे मन्यास्तम्भे गलग्रहे । कोष्ठशीर्षगते वाते सर्वाङ्गानिलसंग्रहे ॥ २९४ ॥ तूनीप्रतूनीगुल्मेषु सप्तस्वेव क्षयेषु च । क्रमिकोष्ठापहारी च अशीतिपवनापहः ॥ २९५ ॥ क्षीराहारो भवेच्चात्र मांसाहारोऽथवापि वा । पुरुषः स्निग्धदेहस्तु स्नेहमत्स्यसमग्रतः ॥ २९६ ॥

४.] गदनिग्रहः । १२९ वातव्याधौ व्योषाद्या गुटिका । व्योषं सग्रन्थिकं पथ्यां चित्रकं जीरकद्वयम् । अजमोदां यवानीं च वचां चैवमवल्गुजम् ॥ २९७ ॥ लवणत्रितयं क्षारं समभागानि चूर्णयेत् । यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं शुभम् ॥ २९८ ॥ पलार्धसंमितं चात्र योजयेच्चाम्लवेतसम् । गुटिकैषा हिता वाते सामे सन्ध्यस्थिमज्जगे ॥ २९९ ॥ नवं करोति भग्नं च जठरानलदीपनम् । पूजिता देवदेवेन कालपादेन शम्भुना ॥ ३०० ॥ कुष्ठे स्वायम्भुवो गुग्गुलुः । शशिरेशा पञ्चपलं तावद्गिरिजस्य गुग्गुलोर्दश च । ताप्यस्य पलत्रितयं द्वे लोहाच्छ्रवणिकायाश्च ॥ ३०१ ॥ त्रिफलाकरञ्जपल्लवखदिरगुडूचीवचात्रिवृद्दन्ती- । मुस्ताविडङ्गरजनीचतुरङ्गुलवह्निकुटजैश्च ॥ ३०२ ॥ पलिकैश्चूर्णमेतन्मूत्रेण गवां पिबेन्नरः प्रातः । कुष्ठी घृतमधुमिश्रं जयत्यसृग्वातमचिरेण ॥ ३०३ ॥ श्वित्राणि कुष्ठकोठौ विषगरगुल्मोदरप्रमेहांश्च । उन्मादभगन्दरमपस्मृतिश्लीपदकृमिश्चासान् ॥ ३०४ ॥ जयति वलीपलितानि च योगः स्वायम्भुवः प्रोक्तः । कुष्ठे धन्वन्तरीया सप्तविंशतिका गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं विडङ्गं चव्यचित्रकौ । सूक्ष्मैला पिप्पलीमूलं माक्षिकं सुरदारु च ॥ ३०५ ॥ तुम्बरुं पौष्करं कुष्ठं विषा च रजनीद्वयम् । सौवर्चलं विडं चैव सैन्धवं हस्तिपिप्पली ॥ ३०६ ॥ यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं पचेत् । प्रक्षिप्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०७ ॥

१३० आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् । बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ ३०८ ॥ एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः । संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०९ ॥ भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् । वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ ३१० ॥ श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् । जठरं योनिशूलं च हन्तर्भूतं च विद्रधिम् ॥ ३११ ॥ पार्श्वशूलं कृमीन् गुल्मान्प्रमेहांश्छर्द्यरोचकौ । केवलानिलजात्रोगान् शीतजान् श्लैष्मिकानपि ३१२ सेविता नाशयत्याशु रसायनमनुत्तमम् । रास्नाद्यो गुग्गुलुः । रास्नामृतैरण्डसुराह्वविश्वं तुल्यं पुरेणाथ विमृद्य खादेत् । वातामयी कर्णशिरोगदी च नाडीयुतश्चैव भगन्दरी च ३१३ आमवाते धन्वन्तरीया द्वात्रिंशका गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं विडङ्गं चित्रकं वचा । चव्यैलापिप्पलीमूलं हपुषा सुरदारु च ॥ ३१४ ॥ तुम्बुरुं पौष्करं कुष्ठं विशाला रजनीद्वयम् । बाष्पिका जीरकं शुण्ठी सपत्रा च दुरालभा ॥ ३१५॥ सैन्धवं च बिडं क्षारौ विषा च हस्तिपिप्पली । भागानेषां समान्कृत्वा तुल्यं कृत्वा तु गुग्गुलुम्॥३१६॥ ततो बदरमात्रां तु गुटिकां कारयेद्बुधः । तां भक्षयित्वा तु मेधावी मधुना सह योजिताम् ॥३१७ आमं हन्यात्सुदुर्वारमन्त्रवृद्धिं गुदकृमीन् । आनाहं च तथोन्मादं कुष्ठानि गुदजानि च ॥३१८॥ गृध्रसीं च हनुस्तम्भपक्षाघातापतानकान् । शोफं प्लीहामयं मेहं कामलामपचीं तथा ॥ ३१९ ॥

४.] गदनिग्रहः । १३१ नाम्ना द्वात्रिंशको ह्येष गुग्गुलुः कथितो महान् । धन्वन्तरिकृतो योगः सर्वरोगनिषूदनः ॥ ३२० ॥ वातव्याधौ बिल्वादयो गुग्गुलुः । बिल्वैलापटुहेमचव्यहपुषाद्राक्षाकणादाडिमं मूलं पौष्करमक्षपाक्यमरिचं शुण्ठी यवानी वचा । कर्पूरेन्द्रयवाम्लवेतसत्रुटित्वक्तिन्तिडीकाग्निकं नैम्बं पत्रमजाजियुग्मरुचकं क्षुद्राम्बुधात्रीफलम् ॥ ३२१॥ पाठाधान्ययवासदीप्यककणामूलं दलं बाष्पिका मुस्ता कर्षसमैश्चतुष्पलयुतैः क्षौद्रस्य जीर्णस्य वै । दत्त्वा गुग्गुलुमत्र चाष्टपलिकं कृत्वा वटान्भक्षयेत् ते जग्धा विनिहन्ति वातकफजान् व्याधीनशेषानपि३२२ अर्शसि योगराजो गुग्गुलुः । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । पाठाविडङ्गेन्द्रयवहिङ्गुभार्गीवचान्वितैः ॥ ३२३ ॥ सर्षपातिविषाजाजीजीरकै रेणुकायुतैः । गजकृष्णाजमोदाभ्यां कटुमूर्वासमन्वितैः ॥ ३२४ ॥ समभागान्वितैरेतैस्त्रिफला द्विगुणा भवेत् । त्रिफलासहितैरेतैः समभागस्तु गुग्गुलुः ॥ ३२५ ॥ एतच्चूर्णीकृतं सर्वं मधुना च परिप्लुतम् । योगराजमिमं विद्वान्भक्षयेत्प्रातरुत्थितः ॥ ३२६ ॥ अर्शांसि वातगुल्मं च पाण्डुरोगमरोचकम् । नाभिशूलमुदावर्तं प्रमेहान्वातशोणितान् ॥ ३२७ ॥ कुष्ठं क्षयमपस्मारं हृद्रोगं ग्रहणीगदम् । महान्तमग्निसादं च श्वासकासभगन्दरान् ॥ ३२८ ॥ रेतोदोषाश्च ये पुंसां योनिदोषाश्च योषिताम् । निहन्याच्चाशु तान्सर्वान्दुर्वारानप्यसंशयम् ॥ ३२९ ॥

१३२ आयुर्वेद्रीयग्रन्थमाला । [गुटिकाधिकारः एष निष्परिहारस्तु पानभोजनमैथुने । सतताभ्यासयोगेन वलीपलितनाशनः ॥ ३३० ॥ नाडीव्रणे त्रिफलाद्यो गुग्गुलुः । हन्ति नाडीव्रणक्लेदभगन्दरगलामयान् । विद्रधिगुल्मपिटका गुग्गुलुस्त्रिफलान्वितः ॥ ३३१ ॥ प्रमेहे गोक्षुरगुग्गुलुगुटिका । त्रिकटुत्रिफले तुल्ये गुग्गुलुं च समांशकम् । गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्बुधः ॥ ३३२ ॥ देशकालबलापेक्षी भक्षयेच्चानुलोमिनीम् । न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ॥ ३३३॥ प्रमेहान्वातरोग्रांश्च वातशोणितमेव च । मूत्राघातं मूत्रदोषं प्रदरं चापि नाशयेत् ॥ ३३४ ॥ वातगुल्मे वातरक्ते च कैशोरको गुग्गुलुः । वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम् । प्रक्षिप्य तोयराशौ त्रिफलां च यथोक्तपरिमाणाम् ॥ ३३५॥ द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन । संसाधयेत्प्रयत्नाद्दर्व्या संघट्टयेच्च तद्यावत् ॥ ३३६ ॥ अर्धक्षयितं जातं तोयं ज्वलनस्य संपर्कात् । अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयःपात्रे ॥ ३३७ ॥ सान्द्रीभूते तस्मिन्नवतार्य हिमोपलस्पर्शे । पथ्याचूर्णं द्विपलं त्रिकटुकचूर्णं षडक्षपरिमाणम् ३३८ कृमिरिपुचूर्णार्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः । पलमेकं गुडूच्या दत्त्वा संमूर्छयेद्यत्नेन ॥ ३३९ ॥ संस्थापयेच्च गुप्तं स्निग्धे भाण्डे घृतेन सुरभीणाम् । आदाय तस्य मात्रां विहितातिथिदेवताप्रणतिः ॥ ३४० ॥ खादेद्यथाग्नि मनुजो व्याधिकलापेक्षया सम्यक् । उष्णोदकं चानुपानं यूषं क्षीरं सुगन्धिसलिलं च ॥ ३४१॥

४.] गदनिग्रहः । १३३ इच्छाहारविहारो भेषजकालश्च सर्व एवात्र । तनुरोधि वातशोणितमेकद्वित्र्युल्बणं चिरोत्थमपि ॥३४२॥ भग्नस्रुतपरिशुष्कं स्फुटितमपि तन्निहन्ति यत्नेन । व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुरोगमेदांसि ॥ ३४३ ॥ मन्दाग्नित्वविबन्धं प्रमेहदोषांश्च नाशयति । सततं निषेव्यमाणः कालेन निहन्ति रोगगणम् ॥ ३४४॥ अभिभूय जरादोषं करोति कैशोरिकं रूपम् । त्रिफलाद्यो गुग्गुलुः । पलानि काथयेत्षष्टिं त्रिफलायास्तु गुग्गुलोः । पलैः षोडशभिः सार्धमपां द्रोणद्वयेन तु ॥ ३४५ ॥ चतुर्थागावशेषं तु कृत्वा भूयोऽप्यधिश्रयेत् । घनीभूतं कषायं तु ज्ञात्वा चोद्धृत्य निःक्षिपेत् ॥३४६॥ छिन्नाविडङ्गव्योषाणां चूर्णानि पलिकानि च । ततो मात्रां बलापेक्षी भक्षयेद्भातरक्तिनम् ॥ ३४७ ॥ कुष्ठिनं श्वित्रिणं चैव गुल्मिनं मेहिनं तथा । बलं मेधां स्मृतिं ज्ञानं तेज आयुर्विवर्धयेत् ॥ ३४८ ॥ गृध्रस्यां कंसाह्वयो गुग्गुलुः । पथ्याविभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन युक्तं तु पलङ्कषस्य द्रोणे जलस्य स्थितमेकरात्रम् ॥ ३४९॥ अर्धावशेषं कथितं कषायं भाण्डे पचेतं पुनरेव लौहे । अमूनि पश्चादवतार्य दद्याद्द्रव्याणि संचूर्ण्य पलार्धकानि ॥३५० विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृत्र्यूषणचित्रकाणि । यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानाहितभोजनानि ॥ ३५१ ॥ निषेवमाणस्य निहन्ति रोगाञ्जङ्गागतान्गृध्रसिवातजान्गदान् । प्लीहानमुग्रं जठराणि गुल्मं पाण्ड्व्यर्कण्डूकृमिवातरक्तम् ॥३५२॥ कंसाह्वयो गुग्गुलुरेष नाम्ना ख्यातः क्षितौ तत्प्रथितप्रभावः । बलेन नागेन्द्रसमं मनुष्यं वेगेन कुर्याद्धरिवेगतुल्यम् ॥ ३५३ ॥ १२

१३४ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः आयुष्यप्रदो हर्षकरोऽतिपथ्यश्चक्षुष्प्रदः पुष्टिकरो विषघ्नः । क्षतस्य सन्धानकरो विशेषाद्व्रणेषु शस्तः सकलेषु चैव ॥३५४॥ गण्डमालायां त्रिफलाद्या गुग्गुलुगुटिका । त्रिफलात्रिवृतादन्तीनीलिनीचतुरङ्गुलाः । एषां तु भिषजा ग्राह्या प्रत्येकं पलविंशतिः ॥ ३५५ ॥ कुट्टितैः कथितैरेभिश्चतुर्द्रोणमपाम्भसः । पचेत्तु सलिलं तावद्यावद्द्रोणावशेषितम् ॥ ३५६ ॥ पञ्चाशच्चात्र निक्षिप्य गुग्गुलोस्तु पलान्यपि । ततः पाकघनीभूते त्वगेलानागकेसरम् ॥ ३५७ ॥ त्रिकटुत्रिफलामुस्तं यवानीजीरकानि च । पिप्पलीमूलदहनहपुषाकृष्णजीरकम् ॥ ३५८ ॥ बाष्पिका साजमोदा च तिन्तिडीकाम्लवेतसौ । सौवर्चलं च कृत्वैषां श्लक्ष्णचूर्णं विनिक्षिपेत् ॥ ३५९॥ प्रत्येकमर्धपलिकैर्भागैः सम्यग्विचक्षणः । ततोऽक्षमात्रां गुटिकां भक्षयेत्तां दिने दिने ॥ ३६० ॥ गण्डमालार्बुदग्रन्थ्यूरुस्तम्भोदरपीडितः । अनेनैव विधानेन गिरिजं वा प्रयोजयेत् ॥ ३६१ ॥ वातरक्ते बृहत्स्वायम्भुवगुग्गुलुः । अलम्बुषालोहचूर्णमनयोर्द्वे पले पले । पलत्रयं च ताप्युत्थाद्वाकुची पलपञ्चकम् ॥ ३६२ ॥ शिलाजतु तयोस्तुल्यं पलानि दश गुग्गुलोः । सर्वाण्येकत्र संचूर्ण्य गुटिकां कारयेद्बुधः ॥ ३६३ ॥ शाणं कर्षार्धकर्षं वा ततः खादेत्प्रयत्नतः । वातरक्तं च कुष्ठानि श्वित्राणि विविधानि च ॥ ३६४॥ भगन्दरान् क्षुद्ररोगानर्शांसि ग्रहणीगदान् । बस्तिवातगुददोषांश्च पाण्डुतामुदराणि च ॥ ३६५ ॥

गदनिग्रहः । १३५ शोफश्लीपदमानाहं यक्ष्माणं च विशेषतः । नाडीव्रणांश्च सर्वांस्तु हन्याद्विद्रधिहृद्गदान् ॥ ३६६ ॥ वृष्यो बल्यश्च धन्यश्च केश्यो मेधाग्निवर्धनः । आयुर्वर्णकरस्त्वच्यः पुत्रसौभाग्यदस्तथा ॥ ३६७ ॥ गर्भसन्धानकृत्प्रोक्तो गर्भपुष्टिकराः परम् । कालपादेन विख्यातो नाम्ना स्वायंभुवो भुवि ॥३६८॥ कासे सप्तचत्वारिंशतिका गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् । त्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥ ३६९ ॥ विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् । पटोलेन्द्रयवान् दारु पञ्चैव लवणानि च ॥ ३७० ॥ यवानीं बाष्पिकां भार्गीं हरिद्रे सारिवाद्वयम् । दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥ ३७१ ॥ हरेणुकाजमोदं च तिन्तिडीकाम्लवेतसौ । सतुम्बरूणि सर्वाणि कार्षिकाण्युपकल्पयेत् ॥ ३७२ ॥ गुग्गुलुश्च समो देयो हविषा सह योजयेत् । अक्षमात्रां तु गुटिकां भक्षयेन्मधुना सह ॥ ३७३ ॥ कासं श्वासं तथा शोफमर्शांस्य भगन्दरम् । हृत्पृष्ठपार्श्वशूलं च हन्ति मन्दाग्नितामपि ॥ ३६४ ॥ आमवातमुदावर्तमेदोवृद्धिगुदकृमीन् । अश्नाहं च तथोन्मादं कुष्ठपाण्डूदरामयान् ॥ ३७५ ॥ नाडीदुष्टव्रणान् सर्वान्प्रमेहंश्लीपदानपि । वातरक्ते कण्डिका गुग्गुलुगुटिका । त्रिफलातिविषादारुदार्वीमुस्ताटरूषकैः । खदिरासननक्ताह्वागुडूचीनृपपादपैः ॥ ३७६ ॥ भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः । क्वाथं कृत्वा ततः पूर्वं शीतमष्टगुणेऽम्भसि ॥ ३७७ ॥

१३६ आयुर्वेदग्रन्थमाला । [ गुटिकाधिकारः गुडूच्याः कारयेत्क्वाथमर्धे शिष्टेऽथ वारिणि । क्षिप्त्वा पुरं नवे भाण्डे स्थापयेद्रजनीमथ ॥ ३७८ ॥ आतपेनैव तीव्रेण कौशिकं परिशोषयेत् । शुष्कस्य तु पलान्यष्टौ तावन्मानं शिलाजतु ॥ ३७९ ॥ ताप्यचूर्णात्पलं चैकं द्वे पले मधुसर्पिषोः । एकीकृतं सुसंक्षुद्य लिह्यात्तं त्रिफलाम्बुना ॥ ३८० ॥ तनुना मुद्गयूषेण जाङ्गलानां रसेन च । जीर्णे यूषेण भुञ्जीत पुराणं शालिषष्टिकम् ॥ ३८१ ॥ यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः । त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् ॥ ३८२ ॥ निहन्ति वीर्यतः शीघ्रं कुष्ठरोगं व्रणानपि । छिन्नभिन्नांश्च संधत्ते दरिद्र इव कन्थडीम् ॥ ३८३ ॥ गण्डमालायामष्टाचत्वारिंशत्संज्ञा गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् । त्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥ ३८४ ॥ विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् । पटोलेन्द्रयवान् दारु पञ्चैव लवणानि च ॥ ३८५ ॥ यवानीं बाष्पिकां भार्गीं हरिद्रे सारिवाद्वयम् । दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥ ३८६ ॥ पिप्पलीं चाजमोदं च तिन्तिडीकाम्लवेतसम् । तुम्बरूणि च सर्वाणि कार्षिकाण्युपकल्पयेत् ॥ ३८७ ॥ सूक्ष्मचूर्णीकृतेष्वेषु पलानि दश पञ्च च । महिषाक्षस्य मतिमान् तत्पादेन च माक्षिकम् ॥३८८॥ अष्टचत्वारिंशत्संज्ञः कृष्णात्रेयेण भाषितः । गण्डमालापचीग्रन्थिमुकमुन्मिणगद्गदान् ॥ ३८९ ॥ श्वयाढ्यवातशोफांश्च मन्यास्तम्भं तथार्दितम् । अश्रींसि च प्रमेहांश्च स्थौल्यदोषगुदामयान् ॥ ३९० ॥