भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 148, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 148

१३० आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् । बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ ३०८ ॥ एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः । संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०९ ॥ भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् । वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ ३१० ॥ श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् । जठरं योनिशूलं च हन्तर्भूतं च विद्रधिम् ॥ ३११ ॥ पार्श्वशूलं कृमीन् गुल्मान्प्रमेहांश्छर्द्यरोचकौ । केवलानिलजात्रोगान् शीतजान् श्लैष्मिकानपि ३१२ सेविता नाशयत्याशु रसायनमनुत्तमम् । रास्नाद्यो गुग्गुलुः । रास्नामृतैरण्डसुराह्वविश्वं तुल्यं पुरेणाथ विमृद्य खादेत् । वातामयी कर्णशिरोगदी च नाडीयुतश्चैव भगन्दरी च ३१३ आमवाते धन्वन्तरीया द्वात्रिंशका गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं विडङ्गं चित्रकं वचा । चव्यैलापिप्पलीमूलं हपुषा सुरदारु च ॥ ३१४ ॥ तुम्बुरुं पौष्करं कुष्ठं विशाला रजनीद्वयम् । बाष्पिका जीरकं शुण्ठी सपत्रा च दुरालभा ॥ ३१५॥ सैन्धवं च बिडं क्षारौ विषा च हस्तिपिप्पली । भागानेषां समान्कृत्वा तुल्यं कृत्वा तु गुग्गुलुम्॥३१६॥ ततो बदरमात्रां तु गुटिकां कारयेद्बुधः । तां भक्षयित्वा तु मेधावी मधुना सह योजिताम् ॥३१७ आमं हन्यात्सुदुर्वारमन्त्रवृद्धिं गुदकृमीन् । आनाहं च तथोन्मादं कुष्ठानि गुदजानि च ॥३१८॥ गृध्रसीं च हनुस्तम्भपक्षाघातापतानकान् । शोफं प्लीहामयं मेहं कामलामपचीं तथा ॥ ३१९ ॥

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक) · पृष्ठ 148, कुल 286 में से · BharatKosha