गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 147, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । १२९ वातव्याधौ व्योषाद्या गुटिका । व्योषं सग्रन्थिकं पथ्यां चित्रकं जीरकद्वयम् । अजमोदां यवानीं च वचां चैवमवल्गुजम् ॥ २९७ ॥ लवणत्रितयं क्षारं समभागानि चूर्णयेत् । यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं शुभम् ॥ २९८ ॥ पलार्धसंमितं चात्र योजयेच्चाम्लवेतसम् । गुटिकैषा हिता वाते सामे सन्ध्यस्थिमज्जगे ॥ २९९ ॥ नवं करोति भग्नं च जठरानलदीपनम् । पूजिता देवदेवेन कालपादेन शम्भुना ॥ ३०० ॥ कुष्ठे स्वायम्भुवो गुग्गुलुः । शशिरेशा पञ्चपलं तावद्गिरिजस्य गुग्गुलोर्दश च । ताप्यस्य पलत्रितयं द्वे लोहाच्छ्रवणिकायाश्च ॥ ३०१ ॥ त्रिफलाकरञ्जपल्लवखदिरगुडूचीवचात्रिवृद्दन्ती- । मुस्ताविडङ्गरजनीचतुरङ्गुलवह्निकुटजैश्च ॥ ३०२ ॥ पलिकैश्चूर्णमेतन्मूत्रेण गवां पिबेन्नरः प्रातः । कुष्ठी घृतमधुमिश्रं जयत्यसृग्वातमचिरेण ॥ ३०३ ॥ श्वित्राणि कुष्ठकोठौ विषगरगुल्मोदरप्रमेहांश्च । उन्मादभगन्दरमपस्मृतिश्लीपदकृमिश्चासान् ॥ ३०४ ॥ जयति वलीपलितानि च योगः स्वायम्भुवः प्रोक्तः । कुष्ठे धन्वन्तरीया सप्तविंशतिका गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं विडङ्गं चव्यचित्रकौ । सूक्ष्मैला पिप्पलीमूलं माक्षिकं सुरदारु च ॥ ३०५ ॥ तुम्बरुं पौष्करं कुष्ठं विषा च रजनीद्वयम् । सौवर्चलं विडं चैव सैन्धवं हस्तिपिप्पली ॥ ३०६ ॥ यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं पचेत् । प्रक्षिप्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०७ ॥