गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 150, कुल 286 में से
संदर्भ में पढ़ें१३२ आयुर्वेद्रीयग्रन्थमाला । [गुटिकाधिकारः एष निष्परिहारस्तु पानभोजनमैथुने । सतताभ्यासयोगेन वलीपलितनाशनः ॥ ३३० ॥ नाडीव्रणे त्रिफलाद्यो गुग्गुलुः । हन्ति नाडीव्रणक्लेदभगन्दरगलामयान् । विद्रधिगुल्मपिटका गुग्गुलुस्त्रिफलान्वितः ॥ ३३१ ॥ प्रमेहे गोक्षुरगुग्गुलुगुटिका । त्रिकटुत्रिफले तुल्ये गुग्गुलुं च समांशकम् । गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्बुधः ॥ ३३२ ॥ देशकालबलापेक्षी भक्षयेच्चानुलोमिनीम् । न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ॥ ३३३॥ प्रमेहान्वातरोग्रांश्च वातशोणितमेव च । मूत्राघातं मूत्रदोषं प्रदरं चापि नाशयेत् ॥ ३३४ ॥ वातगुल्मे वातरक्ते च कैशोरको गुग्गुलुः । वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम् । प्रक्षिप्य तोयराशौ त्रिफलां च यथोक्तपरिमाणाम् ॥ ३३५॥ द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन । संसाधयेत्प्रयत्नाद्दर्व्या संघट्टयेच्च तद्यावत् ॥ ३३६ ॥ अर्धक्षयितं जातं तोयं ज्वलनस्य संपर्कात् । अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयःपात्रे ॥ ३३७ ॥ सान्द्रीभूते तस्मिन्नवतार्य हिमोपलस्पर्शे । पथ्याचूर्णं द्विपलं त्रिकटुकचूर्णं षडक्षपरिमाणम् ३३८ कृमिरिपुचूर्णार्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः । पलमेकं गुडूच्या दत्त्वा संमूर्छयेद्यत्नेन ॥ ३३९ ॥ संस्थापयेच्च गुप्तं स्निग्धे भाण्डे घृतेन सुरभीणाम् । आदाय तस्य मात्रां विहितातिथिदेवताप्रणतिः ॥ ३४० ॥ खादेद्यथाग्नि मनुजो व्याधिकलापेक्षया सम्यक् । उष्णोदकं चानुपानं यूषं क्षीरं सुगन्धिसलिलं च ॥ ३४१॥