भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 151, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 151

४.] गदनिग्रहः । १३३ इच्छाहारविहारो भेषजकालश्च सर्व एवात्र । तनुरोधि वातशोणितमेकद्वित्र्युल्बणं चिरोत्थमपि ॥३४२॥ भग्नस्रुतपरिशुष्कं स्फुटितमपि तन्निहन्ति यत्नेन । व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुरोगमेदांसि ॥ ३४३ ॥ मन्दाग्नित्वविबन्धं प्रमेहदोषांश्च नाशयति । सततं निषेव्यमाणः कालेन निहन्ति रोगगणम् ॥ ३४४॥ अभिभूय जरादोषं करोति कैशोरिकं रूपम् । त्रिफलाद्यो गुग्गुलुः । पलानि काथयेत्षष्टिं त्रिफलायास्तु गुग्गुलोः । पलैः षोडशभिः सार्धमपां द्रोणद्वयेन तु ॥ ३४५ ॥ चतुर्थागावशेषं तु कृत्वा भूयोऽप्यधिश्रयेत् । घनीभूतं कषायं तु ज्ञात्वा चोद्धृत्य निःक्षिपेत् ॥३४६॥ छिन्नाविडङ्गव्योषाणां चूर्णानि पलिकानि च । ततो मात्रां बलापेक्षी भक्षयेद्भातरक्तिनम् ॥ ३४७ ॥ कुष्ठिनं श्वित्रिणं चैव गुल्मिनं मेहिनं तथा । बलं मेधां स्मृतिं ज्ञानं तेज आयुर्विवर्धयेत् ॥ ३४८ ॥ गृध्रस्यां कंसाह्वयो गुग्गुलुः । पथ्याविभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन युक्तं तु पलङ्कषस्य द्रोणे जलस्य स्थितमेकरात्रम् ॥ ३४९॥ अर्धावशेषं कथितं कषायं भाण्डे पचेतं पुनरेव लौहे । अमूनि पश्चादवतार्य दद्याद्द्रव्याणि संचूर्ण्य पलार्धकानि ॥३५० विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृत्र्यूषणचित्रकाणि । यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानाहितभोजनानि ॥ ३५१ ॥ निषेवमाणस्य निहन्ति रोगाञ्जङ्गागतान्गृध्रसिवातजान्गदान् । प्लीहानमुग्रं जठराणि गुल्मं पाण्ड्व्यर्कण्डूकृमिवातरक्तम् ॥३५२॥ कंसाह्वयो गुग्गुलुरेष नाम्ना ख्यातः क्षितौ तत्प्रथितप्रभावः । बलेन नागेन्द्रसमं मनुष्यं वेगेन कुर्याद्धरिवेगतुल्यम् ॥ ३५३ ॥ १२

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक) · पृष्ठ 151, कुल 286 में से · BharatKosha