गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 144, कुल 286 में से
संदर्भ में पढ़ें१३६ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः एतान्यङ्गानि षट्त्रिंशत्पुष्येण परिपेषिताम् । गुटिकां कोलमात्रां च छायाशुष्कां हि कारयेत् ॥२६१॥ नस्यपानाञ्जने चैषा सम्यग्लेपे च पूजिता । पुंसां सर्वविषार्तानां राजद्वारे रणे तथा ॥ २६२ ॥ वणिजां लाभकामानां विवादे च सदा हिता । सरीसृपा न तिष्ठन्ति यत्र तिष्ठति वेश्मनि ॥ २६३ ॥ अनया संप्रलिप्तस्य चौरवह्निभयं कुतः । सर्पदष्टभयं चापि जलराशिभयं न च ॥ २६४ ॥ भूतदोषे सिद्धार्थकाद्या गुटिका । सिद्धार्थकव्योषवचाश्वगन्धानिशाद्वयं हिङ्गु पलाशकं च । बीजं करञ्जात्कुसुमं शिरीषात्फलं च वल्कश्च कपित्थवृक्षात् ॥ समाणिमन्थं सनतं च कुष्ठं श्यानाकफलं किणिही सिता च । बस्तस्य मूत्रेण सुभावितं तत्पिचेन गन्व्य- गुडान्विदध्यात् ॥ दुष्टव्रणोन्मादनिशान्ध्ययुक्ता उद्वन्धका वारिनिमग्नदेहाः । दिग्घाहताः सर्पितसर्पदष्टास्तान्साधयत्यञ्जनपानलेपैः ॥२६७॥ शोषेऽश्वत्थवटकाः । मूलत्वक्पत्रशुङ्गानामश्वत्थस्य समाहरेत् । शतं शतावरीं मेदां मधुपर्णीं पुनर्नवाम् ॥ २६८ ॥ महासहां क्षुद्रसहां गुडूचीं श्रेयसीं शिवाम् । स्थिरां वयस्यां बृहतीं काकोलीं काकनासिकाम् ॥२६९ क्षीरद्रोणेषु दशसु पचेत्तत्सममात्रया । सिद्धं शीतं पुनः क्षीरं मन्थानेन विमन्थयेत् ॥ २७०॥ जायते यद्धृतं तत्र तदुद्धृत्य पुनः पचेत् । कल्कैर्मधुकजीवन्तीमधुकोत्पलजीवकैः ॥ २७१ ॥ द्राक्षामेदामहामेदावार्ताकीकण्टकारिका- । उच्चटात्रायमाणास्वंशृङ्गाटककसेरुकैः ॥ ३७२ ॥