गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 143, कुल 286 में से
संदर्भ में पढ़ें१.] गदनिग्रहः । १२५ तावत्प्रदेयं सलिलं क्रमेण गाढश्च संदर्शनमेव यावत् । तावच्छिलाजत्वमिसन्निविष्टं समुद्धृतं यावदशेषतश्च ॥ २४८ ॥ अष्टौ पलान्यस्य विशोधितस्य ततः क्रमाद्भावयितुं भवेत् । द्विपञ्चमूल्यौ चिरबिल्वमुस्तापटोलनिम्बत्रिफलाः पलांशाः २४९ सपिप्पलीरोहिणीजीरकं च द्रोणेऽम्भसस्तान्द्रिपलान्यथोक्तान् । प्रकाथ्य चैवाष्टमभागशेषं तस्मात्सृजेद्भावनमल्पमल्पम् ॥ २५०॥ पात्रेऽथ लौहे परिशोषयेत्तत्पुनः पुनर्भावितमेव यावत् । पलद्वयं मागधिकर्कटारुबे चूर्णीकृते लोहरजःसमांशे ॥ २५१ ॥ पलं बृहत्याः सनिदिग्धिकायाः सितोपलामष्टपलोन्मितां तु । पलत्रयं वेणुजरोचनाया मधुत्रयं तद्विनिवेश्य कृत्वा ॥ २५२ ॥ त्रिषष्टिसंख्यान्वटकान्विधिज्ञः खादेत्सुसवारिपयोऽनुपानात् । रसेन वा लावकपिञ्जलानां तोयेन वा दाडिमसंस्कृतेन॥२५३॥ भुक्तैस्तथाऽभुक्तवति प्रदेया रोगार्दिते निष्परिहारिणी च । कुष्ठोदरश्वासगलामयांश्च भगन्दरान्मूत्रविबन्धगुल्मान् ॥२५४॥ यक्ष्माणमर्श्यांस सकासहिक्कां प्लीहां च हन्याद्विषमज्वरांश्च । वन्हेश्च दीप्तिं परमां करोति वलींश्च हन्यात्पलितानि चैव ॥२५५॥ सेव्या त्वियं वज्रकनामधेया मुनिप्रदिष्टा वटिका प्रधाना । वर्ज्याः कुलत्थाश्च सकाकमाच्यः कपोतमांसं च सदा प्रयोगे ॥ विषे सर्षपाद्या गुटिकाः । सर्पपाः पृश्निपर्णी च तगरं पद्मकेसरम् । हरितालं विडङ्गानि रोध्रद्राक्षाप्रियङ्गवः ॥ २५७ ॥ चन्दनं वालकं मांसी विशाला समनःशिला । श्रीवासकनिशादार्वीपद्मकं ध्याममेव च ॥ २५८ ॥ सुरसग्रसवाः स्पृक्का रोचना गन्धनाकुली । अम्लकं कुङ्कुमं दारु शौषेयं गिरिकर्णिकश्च ॥ २५९ ॥ जात्याः पुष्पं प्रवालं च पिप्पली मरिचानि च । सूक्ष्मैला सिन्दुवारं च यष्ट्याह्वं रोध्रमेव च ॥ २६० ॥