गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 154, कुल 286 में से
संदर्भ में पढ़ें१३६ आयुर्वेदग्रन्थमाला । [ गुटिकाधिकारः गुडूच्याः कारयेत्क्वाथमर्धे शिष्टेऽथ वारिणि । क्षिप्त्वा पुरं नवे भाण्डे स्थापयेद्रजनीमथ ॥ ३७८ ॥ आतपेनैव तीव्रेण कौशिकं परिशोषयेत् । शुष्कस्य तु पलान्यष्टौ तावन्मानं शिलाजतु ॥ ३७९ ॥ ताप्यचूर्णात्पलं चैकं द्वे पले मधुसर्पिषोः । एकीकृतं सुसंक्षुद्य लिह्यात्तं त्रिफलाम्बुना ॥ ३८० ॥ तनुना मुद्गयूषेण जाङ्गलानां रसेन च । जीर्णे यूषेण भुञ्जीत पुराणं शालिषष्टिकम् ॥ ३८१ ॥ यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः । त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् ॥ ३८२ ॥ निहन्ति वीर्यतः शीघ्रं कुष्ठरोगं व्रणानपि । छिन्नभिन्नांश्च संधत्ते दरिद्र इव कन्थडीम् ॥ ३८३ ॥ गण्डमालायामष्टाचत्वारिंशत्संज्ञा गुग्गुलुगुटिका । त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् । त्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥ ३८४ ॥ विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् । पटोलेन्द्रयवान् दारु पञ्चैव लवणानि च ॥ ३८५ ॥ यवानीं बाष्पिकां भार्गीं हरिद्रे सारिवाद्वयम् । दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥ ३८६ ॥ पिप्पलीं चाजमोदं च तिन्तिडीकाम्लवेतसम् । तुम्बरूणि च सर्वाणि कार्षिकाण्युपकल्पयेत् ॥ ३८७ ॥ सूक्ष्मचूर्णीकृतेष्वेषु पलानि दश पञ्च च । महिषाक्षस्य मतिमान् तत्पादेन च माक्षिकम् ॥३८८॥ अष्टचत्वारिंशत्संज्ञः कृष्णात्रेयेण भाषितः । गण्डमालापचीग्रन्थिमुकमुन्मिणगद्गदान् ॥ ३८९ ॥ श्वयाढ्यवातशोफांश्च मन्यास्तम्भं तथार्दितम् । अश्रींसि च प्रमेहांश्च स्थौल्यदोषगुदामयान् ॥ ३९० ॥