गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 155, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । १३७ अर्बुदं घ्राणरोगं च बाधिर्यं गृध्रसीं तथा । पूतिनासं प्रतिश्यायं पिटकां क्षतविद्रधिम् ॥ ३९१ ॥ सोदरामन्त्रवृद्धिं च जयेदग्निं च दीपयेत् । अमृताद्या गुग्गुलुगुटिका । अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलकानि गुग्गुलुः । क्रमवृद्धमिदं मधुप्लुतं पिटिकास्थौल्यभगन्दराञ्जयेत् ॥ ३९२ ॥ शोफे गुडार्द्रकगुटिकाः। गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा । कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ॥ शोफप्रतिश्यायगलास्यरोगान् सश्वासकासारुचिपीनसादीन् । जीर्णज्वरार्शोग्रहणीविकारान् हन्यात्तथान्यन्कफवातरोगान् ॥ गुल्मे आरोग्यलवणम् । पलानि दश वारुण्याः स्रुकाण्डात्पलविंशतिः । शतं सिंहीफलानां तु कुमार्याश्च पलद्वयम् ॥ ३९५ ॥ अर्कपत्रशतं चैकं शतं पूतीकपत्रकात् । महिषाख्यात्पाणिमानीं रसोनात्पलपञ्चकम् ॥ ३९६ ॥ पलानि पञ्च सिन्धूत्थाच्चिरबिल्वत्वचस्तथा । सौवर्चलात्तथा त्रीणि व्योषात्पञ्च पलानि च ॥३९७॥ पलद्वयं तु काचस्य सामुद्रलवणाद्दश । पलमेकं बिडाख्यस्य कुडवं दरकृष्णतः ॥ ३९८ ॥ यवान्याश्चाजमोदायाः पलार्धं तु पृथक् पृथक् । रामठस्य पलं चैकं पलैकं जीरकद्वयात् ॥ ३९९ ॥ कुडवं राजिकायाश्च प्रस्थार्धं चित्रकस्य च । सर्वमेकत्र संयोज्य कुट्टयित्वा ह्युलूखले ॥ ४०० ॥ प्रस्थार्धं चार्कदुग्धस्य मानीं सर्षपतैलतः । एकत्र मिलितं कृत्वा चान्तर्धूमं ततो दहेत् ॥ ४०१ ॥