गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 156, कुल 286 में से
संदर्भ में पढ़ें१३८ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकार मस्तुना तं पिबेत्क्षारं कर्षार्धं कर्षमेव वा । गुल्मं शूलं तथानाहमरुचिं पाण्डुतां तथा ॥ ४०२ ॥ हृद्रोगं ग्रहणीदोषमर्शोऽजीर्णं विषूचिकाम् । अष्ठीलामूर्ध्ववातं च वातकुण्डलिकं तथा ॥ ४०३ ॥ मूत्रग्रन्थि प्रतिश्यायं कासं श्वासं तथाऽश्मरीम् । प्लीहानमामदोषांश्च वातश्लेष्मोद्भवान् गदान् ॥ ४०४॥ हन्यादारोग्यलवणं सन्नस्याग्नेश्च दीपनम् । गण्डमालायां काञ्चनारगुग्गुलुः । पलानां दशकं ग्राह्यं काञ्चनारत्वचो बुधैः । षट्पला त्रिफला ग्राह्या व्योषं ग्राह्यं पलत्रयम्॥४०५॥ पलैकं वरुणस्यापि त्वगेलापत्रकं तथा । कर्षकर्षमितं ग्राह्यं सर्वाण्येकत्र चूर्णयेत् ॥ ४०६ ॥ सर्वै चूर्णमिदं यावत्तावन्मात्रस्तु गुग्गुलुः । संमर्द्य गुटिकाः कार्याः शाणमात्रास्ततो बुधैः ॥४०७॥ भक्षयेत्प्रातरेकैकामनुपानविशेषतः । गण्डमालां जयेदुग्रामपचीमर्बुदानि च ॥ ४०८ ॥ ग्रन्थीन्ब्रणां सगुल्मांश्च विद्रधिं च भगन्दरम् । अनुपाने प्रयोक्तव्यः क्वाथो मुण्डीसमुद्भवः ॥ ४०९ ॥ क्वाथो वा खदिरस्याथ पथ्याक्वाथोष्णकं जलम् । गण्डमालायां काञ्चनगुटिका । त्रिफलायास्त्रयो भागा व्योषाच्च द्विगुणो मतः॥४१०॥ तस्माच्च द्विगुणं ज्ञेयं काञ्चनारस्य वल्कलम् । एकीकृते तु चूर्णेऽस्मिन् समो देयोऽथ गुग्गुलुः॥४११॥ क्षौद्रं दशगुणं दद्यात्त्रिफलाचूर्णतो भिषक् । सर्वासु गण्डमालासु गलगण्डे तथैव च ॥ ४१२ ॥ नाडीव्रणे विद्रधौ च गुटिकेयं प्रशस्यते । इति श्रीसोढलप्रथिते गदनिग्रहे गुटिकाधिकारश्चतुर्थः ।