गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 131, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । ११३ ज्वरातिसारं तन्द्रां च सेविता हन्ति वेगतः । कुष्ठे तुवरास्थिवटकाः । हरीतकी शक्रयवाः पटोलफलपुष्करम् ॥ ११६ ॥ बाकुची राजवृक्षश्च वह्न्यर्कमूलमेव च । आवर्तकीफलं चैव भागवृद्ध्या यथोत्तरम् ॥ ११७ ॥ यावन्त्यमूनि तुल्यानि तुवरास्थां च संभवा । मज्जा खदिरसंसिद्धा गोमूत्रकथिता पुनः ॥ ११८ ॥ सैर्वरैभिः कर्षमात्रां गुटिकां कारयेद्भिषक् । प्राश्यैनामनुगोमूत्रं पिबेच्चापि पलत्रयम् ॥ ११९ ॥ जीर्णज्वरे तत्क्षीणे वा घृतमुष्णोदनं भजेत् । सप्ताहं तिलतैलेन निष्पावकङ्गुसेवनम् ॥ १२० ॥ तक्रानुपानं मासं च तत्परं सर्वभुग्भवेत् । क्षाराम्लवर्जी जयति सर्वकुष्ठानि मानवः ॥ १२१ ॥ कुष्ठे खदिरादिवटिका । खदिराद्वीजकान्निम्बात्कुटजाच्छाळसारतः । पञ्चाशत्पलिकान् भागान् गोमूत्रस्याढकद्वयम् ॥१२२॥ जलद्रोणद्वये चापि सुगुप्तं दिवसान् दश । दशरात्रस्थितं तत्त कषायमनुसाधयेत् ॥ १२३ ॥ अध्यर्धाढकशेषं तु पुनरग्नावधिश्रयेत् । चूर्णीकृतान्यथेमानि भेषजान्यत्र दापयेत् ॥ १२४ ॥ भल्लातकानि त्रिफलां विडङ्गानि वचां तथा । चित्रकावल्गुजौ चैव भागान् दशपलांशकान् ॥१२५॥ दद्याद्वायसिमूलाच्च पलानां पञ्चविंशतिः । घनीभूतं तु तं ज्ञात्वा गुटिकां कारयेद्भिषक् ॥ १२६॥ तां भक्षयेत कुष्ठार्तः पथ्यभोजी जितेन्द्रियः । कुष्ठानि नाशयत्येषा छिन्नाभ्राणीव मारुतः ॥ १२७॥