भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 158, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 158

१४० आयुर्वेदीयग्रन्थमाला। [लेहाधिकारः हन्ति यक्ष्माणमत्युग्रं शीतार्त्ति चाम्लपित्तकम् ॥ १२ ॥ भारद्वाजेन कथितो लेहश्चित्रकसंज्ञकः । अर्शसि चित्रकावलेहः । तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत्पाददलस्थमथेदम् । अष्टौ दत्त्वा जीर्णगुडस्य पलानि क्वाथ्यं भूयः सान्द्रतया समवेतम् ॥ १३ ॥ त्रिकटुकमिशिपथ्याकुष्ठमुस्तावराङ्ग- कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः । जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः ॥ १४ ॥ रक्तपित्ते कूष्माण्डावलेहः । कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् । पचेत्तप्ते घृतप्रस्थे पात्रे ताम्रमये दृढे ॥ १५ ॥ यदा मधुनिभः पाकस्तदा खण्डशतं क्षिपेत् । पिप्पलीशृङ्गवेराच्च द्वे पले जीरकस्य च ॥ १६ ॥ त्वगेलापत्रमरिचधान्यकानां पलार्धकम् । न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेत्ततः ॥ १७ ॥ तत्पक्वं स्थापयेद्भाण्डे क्षौद्रं दत्त्वा घृतार्धकम् । तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥ १८ ॥ श्वासकासारुचिच्छर्दितृष्णाज्वरनिपीडितः । वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ॥ १९ ॥ उरःसन्धानकरणं बृंहणं स्वरबोधनम् । अश्विभ्यां निर्मितं सिद्धं कूष्माण्डकरसायनम् ॥ २० ॥ १. अस्मत्प्रे 'क्षौद्रार्धकां सितां केचित् केचिद्राक्षां सितार्धकाम् । द्राक्षार्धानि लवङ्गानि मनाक् कर्पूरकं क्षिपेत्' इति योगरत्नाकरेऽधिकः पाठः ।