गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 164, कुल 286 में से
संदर्भ में पढ़ें१४६ आयुर्वेदीयग्रन्थमाला । [ लेहाधिकारः वासिष्ठहरीतक्यवलेहः । यवाढकं सप्त जलाढकानि हरीतकीनां च शतं गुरूणाम् । दन्त्यश्वगन्धाचिरिबिल्वमूलं भल्लातकांश्चापि च पक्वबिल्वम् ७६ उभे हरिद्रे गजपिप्पली च मूलानि पत्राणि च चित्रकस्य । पिप्पल्यपामार्गमथात्मगुप्ता सर्वाणि कुर्यात्पलसंमितानि ॥७७॥ लौहे समादाय पचेत्कटाहे द्विपञ्चमूलं च यवप्रमाणम् । मृद्वग्निसिद्धांश्च यवान्विदित्वा शनैः प्रयत्नादवतारयेच्च ॥ ७८॥ निःस्त्राव्य तेनैव जलेन सम्यक् सार्धं पुराणस्य शतं गुडस्य । भूयो गुरूणामथ तत्र दद्याद्धरीतकीनां च सहस्रमन्यत् ॥७९॥ प्रस्थं पुराणस्य घृतस्य चैव नवस्य तैलस्य च तावदेव । शीते मधु स्नेहसमं च दद्यात्पलानि चाष्टावथ पिप्पलीनाम्॥८०॥ पथ्ये सलेहे त्वथ भक्ष्यमाणे सर्वा रुजो नाशयतो हि मासात् । मासद्वयेनैव च नेत्ररोगान्निहन्ति गार्ध्रं लभते च चक्षुः॥ ८१ ॥ मासैस्त्रिभिर्नाशयतो हि कुष्ठं विशीर्णतां चाङ्गुलिनासिकानाम् । भगन्दरश्लीपदवातगुल्मानर्शांस्यथो मासचतुष्टयेन ॥ ८२ ॥ केशान्घनान्कुञ्चितदीर्घनीलान् पञ्चभिश्चैव करोति मासैः । सहस्रसङ्ख्यां च तथोपयुज्य बलं लभेदुत्तमकुञ्जरस्य ॥ ८३ ॥ स्वरं मयूरस्य जवं हयस्य शरच्छशाङ्कस्य तथैव कान्तिम् । सौभाग्यमेधास्मृतिसत्त्वतेजःशोभान्वितः पद्मसमानगन्धः ८४ जीवेत्समानां च सहस्रमन्यत्प्रयोगकालादिति सिद्धवाक्यम् । न चान्नपानेऽध्वनि मैथुने वा नरेण किंचित्परिहार्यमस्मिन् ॥ समीक्ष्य कल्पं तु रसायनानां चकार योगं भगवान्वसिष्ठः॥८५॥ वासाहरीतक्यवलेहः । तुलामादाय वासायाः संक्वाथ्याष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ८६ ॥ १. प्रत्यहं हरीतकीद्वयं लेहं च पलप्रमाणं भक्षयेदित्यर्थः ।