गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 165, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । १४७ गुरूणामभयानां तु खण्डाच्छुद्धात्तथा शतम् । शीतीभूते निदध्यात्तु क्षौद्रस्याष्टौ पलानि च ॥ ८७ ॥ वंशोद्भवायाश्चत्वारि पिप्पल्यर्धपलं तथा । चातुर्जातपलं चैव सर्वदा हन्ति सेवितः ॥ ८८ ॥ विद्रधिं जठरं गुल्मं रक्तपित्तं सुदारुणम् । श्वासं क्षयं तथा कासं तृष्णाहृद्रोगपीनसान् ॥ ८९ ॥ पलार्धं भक्षयेदस्य यथेष्टं चात्र भोजनम् । गुल्मे दन्तीहरीतक्यवलेहः । जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः ॥ ९० ॥ दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च । अष्टभागावशेषं च रसं पूतमधिश्रयेत् ॥ ९१ ॥ दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः । तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम् ॥ ९२ ॥ चूर्णितं चार्थपलिकं पिप्पलीविश्वभेषजम् । लेहवत्साधयेत्तं च शीते तैलसमं मधु ॥ ९३ ॥ क्षिपेच्चूर्णं पलं चैकं त्वगेलापत्रकेसरात् । ततो लेहपलं लिह्याज्जग्ध्वा चैकां हरीतकीम् ॥ ९४ ॥ सुखं विरिच्यते स्निग्धो दोषान् प्रशमयत्यलम् । गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम् ॥ ९५ ॥ हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् । कुष्ठं प्लीहानमानाहं तथा हन्त्युपसेवितः ॥ ९६ ॥ निरत्ययक्रमश्च स्याद्भोज्यो मांसरसौदनः । कासे व्याघ्रीहरीतक्यवलेहः । व्याघ्रीशतं हरीतक्यो दत्त्वा च शतसंमिताः ॥ ९७ ॥ जले चतुर्गुणे पक्त्वा चतुर्थांशावशेषिते । आलोप्यार्धतुलां तस्मिन् गुडस्य त्वभयाश्च ताः ॥९८॥