गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 171, कुल 286 में से
संदर्भ में पढ़ें५.] गदनिग्रहः । १५३ तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन १५४ पाठा समङ्गाऽतिविषा समुस्ता बिल्वं च पुष्पाणि च धातकीनाम् । प्रक्षिप्य भूयो विपचेत्तु तावद्दर्वीप्रलेपस्तु रसस्तु यावत् ॥१५५॥ पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवापि । निहन्ति सर्वं त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा ॥१५६ दोषं ग्रहण्या विविधं च रक्तं पित्तं तथाऽर्शासि सशोणितानि । असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥१५७॥ ग्रहण्यां मधुपाकविधिः । पाठाऽजमोदा मधुकं समङ्गा मुस्ता जलोशीरविडङ्गधान्यम् । बिल्वाग्निशुण्ठीमगधाः सरोध्रश्यामाः सुधात्री करिकुङ्कुमं च १५८ जम्ब्वाम्रयोरस्थि सवल्कलं च सर्वाणि चैतानि पलांशकानि । द्रोणे जलस्य प्रपचेत्कषायमष्टावशेषं सितवस्त्रपूतम् ॥ १५९ ॥ क्षौद्रं क्षिपेदष्टपलप्रमाणं पलार्धनागाह्वयचन्दनैलाः । सहैव संमर्द्य विधाय चूर्णं क्षौद्रान्वितं तच्च पुनर्विपाच्यम् ॥१६० उत्तार्य लेहं घृतभाजने च निधापयेत्सप्त दिनानि गुप्तम् । तं पाययेद्व्याधिबलं समीक्ष्य जयेच्च सर्वान् ग्रहणीविकारान् । अरोचकं जीर्णमथातिसारं तृष्णाम्लपित्तं वमिहृद्ग्रहं च॥१६१॥ कासे कण्टकार्यावलेहः । समूलफलशाखां तु कुट्टयेत्कण्टकारिकाम् । तां पचेत्सलिलेद्रोणे चतुर्थांशावशेषिताम् ॥ १६२ ॥ कषायं तं परिस्राव्य पुनरग्नावधिश्रयेत् । घृतं च युक्त्या दातव्यं कल्कं चैव प्रदापयेत् ॥१६३॥ दुरालभा छिन्नरुहा त्र्यूषणं चित्रकं तथा । रास्ना कर्कटशृङ्गी च पिप्पलीमूलमेव च ॥ १६४ ॥ एतान्येकपलीकानि तथा फाणितशर्कराम् । पलानां विंशतिं दत्त्वा तं लेहं सान्द्रमुद्धरेत् ॥ १६५ ॥