गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 173, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । १५५ नाहारे यन्त्रणा काचिन्न विहारे तथैव च । उदावर्तविवन्धाशोगुल्मपाण्डूदरकृमि- ॥ १७८ ॥ कुष्ठमेहारुचिहरो विड्विबन्धेषु शस्यते । लेहः पटोलमूलाख्यः सर्वकर्मसु युज्यते ॥ १७९ ॥ मुखरोगे दार्श्वलेहः । दार्ब्यास्तु मूलार्धतुलां जलस्य द्रोणे शृतां पूतचतुर्थशेषाम् । भूनिम्बदार्बीखदिरारिमेदः पुनर्विपक्कं पलिकैश्चतुर्भिः ॥१८०॥ पूतं ततो गैरिकचूर्णपादं मन्दानले तच्च पुनर्विपक्कम् । सञ्जीय शीतं मधुशर्कराभ्यां सदा प्रयोज्यं घृतभाजनस्थम् १८१ नानाप्रकारेपु मुखामयेषु सुदारुणेषूग्ररुजेषु चैव । प्रशीर्णजीर्णेष्वबलद्विजेषु कृच्छ्रेषु दुष्टेषु व्रणेषु चैव ॥ १८२ ॥ कल्पोऽयमिष्टो मधुकस्य चैव प्रपौण्डरीकस्य वृषस्य चैव । जातीरिमेदत्रिफलासमङ्गारोध्रस्य जम्बोः खदिरस्य चैव १८३ नागराद्योऽवलेहः । नागरस्य पलान्यष्टौ घृतस्य पलविंशतिः । क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्धशतं तथा ॥ १८४ ॥ व्योषं त्रिजातकं चैव पलांशमुपकल्पयेत् । बल्यं च वर्ण्यमायुष्यं वलीपलितनाशनम् ॥ १८५ ॥ आमवातप्रशमनं सौभाग्यकरमुत्तमम् । कासे कसेर्वाद्योऽवलेहः । कसेरोस्तु तुलार्धं हि द्विद्रोणेऽपां विपाचयेत् ॥ १८६ ॥ द्रोणार्धशेषे पूते च दद्याद्गुडतुलां तथा । सर्पिषः कुडवं दद्याल्लेहवत्साधु साधयेत् ॥ १८७ ॥ चतुष्पलं तु व्योषस्य त्रिजातं त्रिपलं तथा । पलद्वयं केसरस्य चूर्णं कृत्वा विनिक्षिपेत् ॥ १८८ ॥ तद्यथाग्निबलं खादेत्कासकृमिज्वरापहः । हृत्पाण्डुरोगवैवर्ण्यदौर्बल्यानाहनाशनः ॥ १८९ ॥