गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 189, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १७१ गुडस्य द्विशतं पूतं मधुनः कुडवान्वितम् ॥ ६८ ॥ तद्धत्प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णकम् । कुडवं घृतकुम्भस्थं पक्षादूर्ध्वं पिबेन्नरः ॥ ६९ ॥ ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् । स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ७० ॥ अर्शसि दन्त्यरिष्टः । दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ ७१ ॥ त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् । रसे चतुर्थशेषे तु पूते शीते प्रदापयेत् ॥ ७२ ॥ तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने । तन्मात्रया पिबेन्नित्यमर्शेभ्यः स विमुच्यते ॥ ७३ ॥ ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् । दीपनं चारुचिहरं दन्त्यरिष्टमिमं विदुः ॥ ७४ ॥ अर्शसि अभयारिष्टः । हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च । कपित्थानां दशपलं ततोऽर्धं चेन्द्रवारुणी ॥ ७५ ॥ विडङ्गं पिप्पली रोध्रं मरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ७६ ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ ७७ ॥ पक्षादूर्ध्वं भवेत्पेया ततो मात्रा यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ७८ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ७९ ॥ सिद्धोऽयमभयारिष्टः कामलाशिव्रनाशनः । कृमिग्रन्थ्यर्बुदव्यङ्गराजक्ष्मज्वरान्तकृत् ॥ ८० ॥