गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 190, कुल 286 में से
संदर्भ में पढ़ें१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडसैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहणीर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूदशमूलार्कचित्रकाः । दन्तीश्यामात्रिवृद्द्द्वाक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आभयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तद्वल्लोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥